________________
-५. . ३२ ]
भावप्राभृतम्
२८१
कृते प्रवर्तते । दुर्भिक्षे कान्तारे दुरुत्तरे पूर्वंशत्रुभये दृष्टनुपभये स्तेनभये तिर्यगुपसर्गे एकाकिनः सोढुमशक्ये ब्रह्मब्रतनाशादिचारित्रदृषणे च जाते संविग्नः पापभीरुः
अल्प है अर्थात् जिन्हें संसार से पूर्ण भय नहीं है । अथवा जो धर्मं और धर्म फलके विषय में अनुत्साहो हैं, जिनको बुद्धि उत्तमक्षमादि दश धर्मों
नहीं लगती है तथा जो दोषयुक्त चारित्रके धारक हैं वे आसन्न कहलाते हैं । 'वे आसन्न मुनि यदि अन्तिम समय आत्मशुद्धि करके मरते हैं तो उनका मरण प्रशस्त ही कहलावेगा ।
८. बालपण्डित मरण - बालपण्डित सम्यग्दृष्टि श्रावक को कहते हैं क्योंकि वह पूर्ण चारित्रका धारक न होनेसे बाल है और सम्यग्दृष्टि हो जाने के कारण पण्डित है । उसका जो मरण है उसे बालपण्डित मरण कहते हैं । ९. सशल्य मरण - सशल्य मरणका स्वरूप सुगम है । [मिथ्यादर्शन,
१. एवंभूताः सन्तो मृत्वा वराका भवसहस्रेषु भ्रमन्ति । दुःखानि भुक्त्वा भुक्त्वा पावंरूपेण सुचिरं विहृत्यान्त आत्मनः शुद्धि कृत्वा यदि मृतिमुपैति प्रशस्तमेव मरणं भवति । भगवती आराधना ।
2. सशल्यमरणं द्विविधं यतो द्विविधं शल्यं द्रव्यशल्यं भावशल्यमिति । मिथ्यादर्शन-माया-निदान-शल्यानां कारणं कम द्रव्यशल्यम् । द्रव्यशल्येन सह मरणं पञ्चानां स्थावराणां भवति असंज्ञिनां त्रसानां च । ननु द्रव्यशल्यं सर्वत्रास्ति तत्किमुच्यते स्थावराणामिति । भावशल्य - विनिर्मुक्तं द्रव्यशल्यमपेक्ष्यते । एतदुक्तं -- सम्यक्त्वातिचाराणां दर्शनशल्यत्वात्सम्यग्दर्शनस्य च स्थावरेषु अभावात् त्रसेषु च विकलेन्द्रियेषु । इदमेव स्यादनागतकाले इति मनसः प्रणिधानं निदानं । न च तदसंज्ञिष्विति । मार्गस्य दूषणं, मार्गनाशनं, उन्मागं प्ररूपणं, मार्गाप्ररूपणं, मार्गस्थानां भेदकरणं मिथ्यादर्शनशल्यानि । तत्र निदानं त्रिविधं प्रशस्तमप्रशस्तं भोगकृतं चेति । परिपूर्ण संयममाराधयितु. कामस्य जन्मान्तरे पुरुषादि - प्रार्थना प्रशस्तं निदानं, मानकषाय- प्रेरितस्य कुलरूपादि - प्रार्थन मनागतभवविषयं अप्रशस्तं निदानं । अथवा क्रोधाविष्टस्य स्वशत्रुवघ- प्रार्थना वशिष्ठस्येवोग्रसेनोन्मूलने । इह परत्र च भोगा अपि इत्यं· भूता अस्माद् व्रतशोलादिकाद्भवन्त्विति मनः प्रणिधानं भोगनिदानं । असंयत-सम्यग्दृष्टेः संयतासयतस्य वा निदानशल्यं भवति । पार्श्वस्थादिरूपेण चिरं विहृत्य पश्चादपि आलोचनामन्तरेण यो मरणमुपैति तन्मायाशल्यं मरणं तस्य भवति । एतत्संयते, संयतासंयते, अविरत सम्यग्दृष्टावपि भवति । - भगवती आराधना गाथा २५ प्रथमाश्वास विजयोदया टोका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org