________________
-४. ८ ]
बोधप्रामृतम्
हे जीव ! त्वं जानीहि । कथंभूतं चैत्यगृहं ? ( पंचमहव्वयसुद्ध ) पञ्चभिर्महाव्रतैः कृत्वा शुद्ध समूलकाषं कषित कर्ममलकलङ्कसमूहं । अपरं कथंभूतं चैत्यगृहं ? ( णाणमयं ) केवलज्ञान - केवलदर्शनाभ्यां निर्वृत्तं निष्पन्नमित्यर्थः । व्यवहार चैत्यगृहं तु स्थापनान्यासेन पञ्चमहाव्रतशुद्ध स्थापनान्यासबलेन केवलदर्शनमयमित्यर्थः स व्यवहारनयो मुख्यो निश्चयनयस्त गौण इति ज्ञातव्यम् । ये तु लौङ्कार्यातकादिमतानुसारिणो दुरात्मानः श्वेतपटाभासा निश्चयचैत्यमस्पृशन्तोऽपि व्यवहारचैत्यगृह न मानयन्ति 'ते उभयतोऽपि भ्रष्टाः सर्वत्र भोजनभिक्षाग्राहका जिनधर्मविराधकाः पूर्वाचार्योपदिष्टजिनपूजादिकममानयन्तो न जाने कां निन्दितां गतिं गमिष्यन्ति ॥ ८ ॥
पाँच महाव्रतोंके द्वारा कर्ममल रूपी कलङ्कके समूहको समूल नष्ट कर शुद्ध हुआ है तथा ज्ञानमय है केवलज्ञान और केवलदर्शनसे तन्मय है । व्यवहार नयके आलम्बनसे जब जिन मन्दिरको चैत्यगृह कहते हैं तब 'पञ्च महाव्रतशुद्ध' और 'ज्ञानमयं' इन दोनों विशेषणों की संगति स्थापना निक्षेपके बलसे बैठानी चाहिये। इस पक्षमें व्यवहार नय मुख्य है और निश्चय नय गौण है। लौंकागच्छके मतका अनुसरण करनेवाले जो दुष्ट श्वेताम्बराभास निश्चय चैत्यका स्पर्श न करते हुए भी व्यवहार चैत्यगृहजिनमन्दिरको नहीं मानते हैं वे दोनों ओरसे भ्रष्ट हैं, सब जातियोंके घर भोजनके लिए भिक्षा ग्रहण करते हैं, जिनधर्मकी विराधना करते हैं। पूर्वाचार्योंके द्वारा उपदिष्ट जिन-पूजा आदिको न माननेवाले ये लोग न जाने किस दुर्गति को प्राप्त होंगे ? ॥ ८ ॥
१. निश्चयम बुध्यमानो यो निश्चयतस्तमेव संश्रयते । नाशयति करणचरणं स बहिःकरणालसो बालः ॥
१४९
Jain Education International
पिच्छयमालम्बता णिच्छयदो णिच्छ्यं अयाणंता । णासंति चरणकरणं बाहरिचरणलसा होई ॥
- पञ्चास्तिकाये उद्धृता प्रा० गा० । २. येऽपि केवलनिश्चयनयावलम्बिनः सन्तोऽपि रागागिविकल्परहितं परमसमाधिरूपं शुद्धात्मानमलभमाना अपि तपोधना चरणयोग्यं षडावश्यकाद्यनुष्ठानं श्रावकाचरणयोग्यं दानपूजाद्यनुष्ठानं च दूषयन्ते तेऽप्युभयभ्रष्टाः सन्तो निश्चयव्यवहारानुष्ठानयोग्यावस्थान्तरमजानन्तः पापमेव बघ्नन्ति । पञ्चास्तिकाये तात्पर्यवृत्तिः । - गाथा १७२ ।
For Personal & Private Use Only
- पुरुषार्थ० ।
www.jainelibrary.org