________________
प्रकृतिसमुत्कीर्तन नोकषायवेदनीयनवविधमाह
हस्स रदि अरदि सोयं भयं जुगुंछा य इत्थि-पुंवेयं ।
संद वेयं च तहा णव एदे णोकसाया य ॥६२॥ हास्यरत्यरतिशोकमयजुगुप्साश्च स्त्री-पुंवेदी तथा षण्ढवेदश्च इत्यते नव नोकषाया भवन्ति । तन्निरुक्तिमाह-ईषत्कषाया नोकषायास्तान् वेदयन्ति वेद्यन्ते एभिरिति नोकषायवेदनीयानि नवधा । यस्योदयाद् हास्याविर्भावस्तद्धास्यम् १ । यदुदयाद्देशादिषु औत्सुक्यं सा रतिः २। तद्विपरीता अरतिः ३ । यद्विपाकात् शोचनं स शोकः ४ । दुद्वेगस्तद् भयम् ५। यदुदयादात्मीयदोषस्य संवरणं परदोषस्य धारणं सा जुगुप्सा ६ । यदुदयात् स्त्रैणान् भावान् प्रतिपद्यते स स्त्रीवेदः ७ । यस्योदयात् पौंस्नान् भावान् आस्कन्दति प्राप्नोति स पुंवेदः ८ । यदुदयान्नपुंसकान् मावान् उपव्रजति गच्छति स नपुंसकवेदः ९ ॥१२॥ अथ वेदत्रयं विशेषतः गाथात्रयेणाऽऽह
छादयदि सयं दोसे णयदो' छाददि परं पि दोसेण ।
छादणसीला जम्हा तम्हा सा वण्णिदा इत्थी ॥६३॥ यस्भात्कारणात स्वयमात्मानं दोषैः मिथ्यादर्शनाज्ञानासंयमक्रोधमानमायालोभैः छादयति संवृणोति नयतः1 मृदुभाषितस्निग्धविलोकनानुकूलवर्तनादि कुशलव्यापारैः परमपि अन्यपुरुषमपि स्वशं कृत्वा दोषेण हिंसाऽनृतस्तयाब्रह्मपरिग्रहादिपात केन छादयति आवृणोति तस्मात्कारणाच्छादनशीला द्रव्य-भावाभ्यां सा अङ्गना स्त्रीति वर्णिता परमागमे प्रतिपादिता। स्तृणाति स्वयमन्यं च दोराच्छादयतीति निरुतः स्त्री सामान्यतः स्त्रीणां लक्षणमुक्तम् ॥६३॥
पुरुगुणभोगे सेदे करेदि लोयम्हि पुरुगुणं कम्मं ।
पुरु उत्तमो य जम्हा तम्हा सो वण्णिदो पुरिसो॥६४॥ यस्यात् कारणाल्लोके यो जीवः पुरुगुणे 'सम्यग्दर्शनज्ञानचारित्राद्य धिकगुणसमूहे शेते स्वामित्वेन प्रवर्तते, पुरुभोगे नरेन्द्र-नागेन्द्र-देवेन्द्राद्यधिकभोगसमूहे भोक्तृत्वेन प्रवर्त्तते, पुरुगुणं कर्म धर्मार्थकाममोक्ष
अब नोकषाय वेदनीयके नौ भेदोंका प्रतिपादन करते हैं
हास्य, रति, अरति, शोक, भय, जुगुप्सा, स्त्रीवेद, पुंवेद और नपुंसक वेद ये नौ नोकपाय हैं। इनका स्वरूप इनके नामोंके अनुसार जानना चाहिए ॥६२।।
स्त्रीवेदका स्वरूप. यतः जो मिथ्यादर्शन, अज्ञान, असंयम आदि दोषोंसे अपनेको आच्छादित करती है
और मृदु-भाषण, तिरछी-चितवन आदि व्यापारोंसे दूसरे पुरुषोंको भी हिंसा, कुशीलादि दोपोंसे आच्छादित करती है, अतः उसे आच्छादन स्वभाव युक्त होनेसे स्त्री कहा गया है ॥६३।।
पुरुषवेदका स्वरूप
यतः जो उत्कृष्ट गुण अथवा उत्कृष्ट भोगोंका स्वामी है, अथवा जो लोकमें उत्कृष्ट गुणयुक्त कर्मको करता है, अथवा जो स्वयं उत्तम है अतः उसे पुरुष कहा गया है ॥६४।।
१. आ ज ब णियदो। निजतः इति पाठः। २. पञ्चसं० १, १०५। गो० जी० २७३ । ३. पञ्चसं० १,१०६ । गो० जी० २७२ ।
1ब न्यायात् नीतेः । 2. ब सम्यग्ज्ञानाय धिकगुणसमूहे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org