________________
३२
. कर्मप्रकृति
.
बहिर्गतो जल्लमल:, तद्वन्धसदृशाजघन्यशक्तिसहितप्रत्याख्यानावरणलोमकषायः जीवं मनुष्यगतावुत्पादयति ३ । हरिद्वारागः अङ्गवस्त्रादिरञ्जनद्रव्यरागः, तद्बन्धसदृशजघन्यशक्तियुक्तसंज्वलनलोभकषायः जोवं देवगतौ उत्पादयति ४ । कृमिरागादिसदृशतत्तदुत्कृष्टादिशक्तियुक्तलोभपरिणामेन जीवस्तत्तन्नारकादिमवोत्पत्ति. कारणतत्तदायुर्गत्यानुपूर्व्यादिकर्म बनातीति भावार्थः ॥६०॥
निरुक्तिपूर्वकं कषायशब्दस्यार्थ निरूपयति
सम्मत्त-देस-सयलचरित्त-जहखादचरणपरिणामे ।
घादंति वा कसाया चउ-सोल-असंखलोगमिदा ॥६१॥ वा अथवा सम्यक्त्वं तत्त्वार्थश्रद्धानं देशचारित्रं अणुव्रतं सकलचारित्रं महाव्रतं यथाख्यातंचरणं यथाख्यातचारित्रं एवंविधात्मविशुद्धिपरिणामान् कषन्ति हिंसन्ति नन्तीति कषायाः इति निर्वचनीयम् । तद्यथा-अनन्तानुबन्धिक्रोधमानमायालोमकषायः प्रात्मनः सम्यक्त्वपरिणामं कषन्ति हिंसन्ति प्रन्ति; अनन्तसंसारकारणत्वात् मिथ्यात्वमनन्तं अनन्तभवसंस्कारकालं वाऽनुबध्नन्ति सुघटयन्ति इत्यनन्तानुबन्धिनः इति निरुक्तिसामर्थ्यात् अनन्तानुबन्धिकषायाः। अप्रत्याख्यानावरणाः क्रोधमानमायालोमकषायाः जीवस्याणुव्रतपरिणामं कषन्ति । अप्रत्याख्यानमीषत्प्रत्याख्यानमणुव्रतमावृण्वन्ति घ्नन्तीति निरुक्तिसिद्धस्वात् अप्रत्याख्यानावरणकषायाः । प्रत्याख्यानावरणाः क्रोधमानमायालोभकषाया आत्मनः सकलचारित्रं महाव्रतपरिणामं कषन्ति । प्रत्याख्यानं सकलसंयमं महाव्रतमावृण्वन्ति नन्तीति निरुक्तिसिद्धत्वात् प्रत्याख्यानकषायाः। संज्वलनाः क्रोधादिकषायाः आत्मनो यथाख्यातचारित्रपरिणामं कषन्ति, सं समीचीनं विशुद्धं संयम यथाख्यातचारित्रनामधेयं ज्वलन्ति दहन्तीति संज्वलना इति निरुक्तिबलेन । तदुदये सत्यपि सामायिकादिसंयमाविरोधः सिद्धः । एवंविधकषायः सामान्येन एकः । विशेषविवक्षायां तु अनन्तान. बन्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनभेदाच्चत्वारः ४। पुनस्ते अनन्तानुबन्ध्यादयश्चत्वारोऽपि प्रत्येक क्रोधमानमायालोमा इति षोडश १६ । तद्यथा-अनन्तानुबन्धिक्रोधमानमायालोभाः, अप्रत्याख्यानावरणक्रोधमानमायालोमाः, प्रत्याख्यानावरणक्रोधमानमायालोमाः, संज्वलनक्रोधमानमायालोमा इति १६ । पुनः सर्वेऽप्युदयस्थानविशेषापेक्षया असंख्यातलोकप्रमिता भवन्ति । कुतः ? तत्कारणचारित्रमोहनीयोत्तरोत्तरप्रकृतिविकल्पानामसंख्यातलोकमानत्वात् ॥६१॥
अनन्तानुबन्धी आदि चारों प्रकारकी कषायोंके कार्य
जो सम्यक्त्व, देशचारित्र, सकलचारित्र, और यथाख्यात चारित्ररूप परिणामोंको कसे या घात करे उसे कषाय कहते हैं। इसके अनन्तानुबन्धी अप्रत्याख्यानावरण आदिकी अपेक्षा चार भेद हैं । इन्हीं चारोंके क्रोध, मान, माया और लोभकी अपेक्षा सोलह भेद हैं और कषायके उदयस्थानोंकी अपेक्षा असंख्यात लोकप्रमाण भेद कहे गये हैं। अनन्तानुबन्धी कषाय सम्यक्त्वकी घातक, अप्रत्याख्यानावरण कषाय देश चारित्र (श्रावकव्रत) की घातक, प्रत्याख्यानावरणकषाय सकलचारित्र (मुनिव्रत ) की घातक और संज्वलनकषाय यथाख्यात चारित्रकी घातक है ।।६।।
१. गो० जी० २८२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org