SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृति प्रकृतिः शीलं स्वभाव इति प्रकृतेः पर्यायनामानि । स्वभावस्य लक्षणं किमिति चेत् कारणान्तरनिरपेक्षत्वं स्वभावः । यथाऽग्नेरूर्ध्वगमनं स्वभावः, वायोस्तिर्यग्गमनं स्वभावः, जलस्य च निम्नगमनं स्वभावः । स च स्वभावः स्वभाववन्तमपेक्षते । स स्वभावः कयोः ? जीवाङ्गयोः । अङ्गशब्देन कम लभ्यते, जीवकर्मणोरित्यर्थः । तत्र जीवकर्मणोर्मध्ये प्रात्मनः रागादिपरिणमनं स्वभावः, कर्मणः रागाद्युत्पादकत्वं स्वभावः । स्वभावो हि स्वभाववन्तमन्तरेण न भवति, स्वभाववान् स्वभावं विना न भवतीत्युच्यमाने इतरेतराश्रयदोषप्रसङ्ग: स्यात् । तत्परिहारार्थमनयोर्जीवकर्मणोः सम्बन्धोऽनादिवर्तत इत्युक्तम् । कयोरिव ? कनकोपलयोर्मलमिव । यथा कनकपाषाणे मलसम्बन्धोऽनादिः, तथा जीवकर्मणोरनादिसम्बन्धः । तयोर्जीवकर्मणोरस्तित्वं कथं सिद्धम् ? स्वतः सिद्धम् । कथमिति चेत् 4अहम्प्रत्ययवेद्यत्वेन आत्मनोऽस्तित्वं सिद्धमिति एको दरिद्रः, एकः श्रीमान् इति विचित्रपरिणमनात् कर्मणोऽस्तित्वं सिद्धमिति ॥२॥ संसारिणां जीवानां कर्म-नोकर्मग्रहणप्रकारगाथामाह देहोदएण सहिओ जीवो आहरदि कम्म-णोकम्मं । पडिसमयं सव्वंगं तत्तायसपिंडओ व्ब जलं ॥३॥ देहा औदारिकवैक्रियिकाहारकतैजसकामणशरीराणीति नामानः । तत्र पञ्चभेदमिन्नेषु मध्ये कार्मणदेहनामोदयजनितयोगेन सहितो जीवः ज्ञानावरणाद्यष्टविधं कर्म आहरति आकर्षति । पुन: औदारिकशरीरोदयेन सहितो जीवः औदारिकनोकर्म श्राहरति, वैक्रियिकदेहोदयेन सहित आत्मा वैक्रियिकनोकर्म आकर्षति, आहारकदेहोदयेन सहितो जीवः श्राहारकनोकर्म आहरति, तैजसकायोदयेन सहितः प्राणी तैजसनोकर्म आकर्षति । कदा आहरतीति चेत् प्रतिसमयम् । तेषामौदारिकादिशरीराणामुदयकाले समय समयं प्रति आहरतीत्यर्थः । केन प्रकारेणाऽऽहरति ? सर्वाङ्गं यथा भवति तथा सर्वात्मनः प्रदेशैरित्यर्थः । किमिव ? तप्तायसपिण्डः जलमिव । यथा तप्तो लोहमयपिण्डः सर्वप्रदेशर्जलमाहरति, तथा शरीरनामोदयेन सहितो जीवः प्रतिसमयं कर्म नोकर्म आहरतीत्यर्थः ॥३॥ अनादिकालिक है। जिस प्रकार कनकोपल (सुवर्ण-पाषाण ) में सोने और पाषाणरूप मलका मिलाप अनादिकालिक है और इसीलिए सुवर्ण-पाषाणके अनादिकालिक अस्तित्वके समान जीव और कर्मका अस्तित्व भी स्वयं सिद्ध है ।।२।। भावार्थ-संसारी जीवका स्वभाव रागादिरूपसे. परिणत होनेका है और कर्मका स्वभाव रागादिरूपसे परिणमानेका है, इस प्रकार जीव और कर्मका यह स्वभाव अनादिकालसे चला आ रहा है, अतएव जीव और कर्मकी सत्ता अनादिकालसे जानना चाहिए। अब ग्रन्थकार बतलाते हैं कि यह जीव कर्म-नोकर्मका ग्रहण किस प्रकारसे करता है जिस प्रकार अग्निसे सन्तप्त लोहेका गोला प्रतिसमय अपने सर्वाङ्गसे जलको खींचता है, उसी प्रकार शरीरनामक नामकर्मके उदयसे चंचलताको प्राप्त हुआ यह जीव प्रतिसमय सर्व ओरसे कर्म और नोकर्म वर्गणाओंको ग्रहण करता है ॥३॥ भावार्थ-जो पुद्गल वर्गणाएँ ज्ञानावरणादि आठ कर्मरूपसे परिणत होती हैं, उन्हें कर्मवर्गणा कहते हैं और जो औदारिकादि शरीररूपसे परिणत होती हैं, उन्हें नोकर्मवर्गणा १. त सहियो। २. गो० क० ३। 1. ब यः कारणान्तरं विना उत्पद्यते स स्वभावः, इत्यधिकः पाठः । 2. ब श्रात्मानं वान्छति, इत्यधिकः पाठः। 3.ब यथा द्रव्यं विना गुणो न भवति, गुणं विना द्रव्यं न भवति, इदमपि अन्योन्याश्रयदूषणम् । 4. अहमिति ज्ञानेन आत्मा ज्ञायते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy