________________
श्रीनेमिचन्द्राचार्यविरचिता कर्मप्रकृतिः
महावीरं प्रणम्यादौ विश्वतत्त्वप्रकाशकम् । भाष्यं हि कर्मकाण्डस्य वक्ष्ये भव्यहितङ्करम् ॥१॥ विद्यानन्दिसुमल्ल्यादि भूषलक्ष्मीन्दुसद्गुरून् । वीरेन्दं ज्ञानभूषं हि वन्दे सुमतिकीर्तिक: 3 ॥३॥
सिद्धान्त परिज्ञानचक्रवर्तिश्रीनेमिचन्द्रकविः ग्रन्थप्रारम्भे पूर्व ग्रन्थनिर्विघ्नपरिसमाप्त्यर्थमिष्टदेवनेमिनाथं नमस्कुर्वन् गाथामाह
पणमिय सिरसा णेमिं गुणरयणविहसणं महावीरं ।
सम्मत्तरयणणिलयं पयडिसमुक्त्तिणं वोच्छं ॥१॥ वोच्छं अहं? नेमिचन्द्रकविः वक्ष्ये । किम् ? प्रकृतिसमुत्कीर्तनम् , प्रकृतीनां ज्ञानावरणादिमूलोत्तरभेदयुक्तानां विवरणमित्यर्थः । किं कृत्वा ? पूर्व पणमिय सिरसा मि इति । शिरसा मस्तकेन नेमि तोर्थकरं स्वामिनं प्रणिपत्य । किं लक्षणं नेमिम् ? गुणरयणविहूसणं । गुणाः अहिंसादयः, त एव रत्नानि तान्येव विभूषणानि यस्य स गुणरत्नाविभूषणस्तम् । पुनरपि कथम्भूतं नेमिम् ? महावीरम् । विशिष्टां ई लक्ष्मी राति ददाति प्रात्मीयत्वेन गृह्णातीति वा वीरः । महांश्चासौ वीरश्च महावीरस्तम् । भूयोऽपि कथम्भूतम् ? सम्मत्तरयणणिलयं। सम्यक्त्वरत्ननिलयं स्वस्वरूपलामः सम्यक्त्वम् , सप्तप्रकृतिक्षयलक्षणं भायिकसम्यक्त्वं वा । तदेव रत्नं तस्य निलयः स्थानं तं सम्यक्त्वरत्ननिलयम् ॥१॥ प्रकृतिसमुत्कीर्तनं वक्ष्ये इति नमस्कारगाथायामुक्तम् । तहिं का प्रकृतिरित्याशङ्कायामाह
पयडी सील सहावो जीवंगाणं अणाइसंबंधो । कणयोवले मलं वा ताणत्थित्तं सयं सिद्ध ॥२॥
.
.
मङ्गलाचरण और ग्रन्थ-निरूपण-प्रतिज्ञा
मैं (ग्रन्थकार नेमिचन्द्र) अनन्त ज्ञानादि गुणरूप रत्नोंके आभूषण धारण करनेवाले, महान् बलशाली और क्षायिक सम्यक्त्वरूप रत्नके स्थान ऐसे नेमिनाथ तीर्थकरको, तथा उक्त विशेषणोंसे विशिष्ट एवं धर्मतीर्थरूप रथके चक्रकी धुराको धारण करनेवाले ऐसे महावीर तीर्थंकरको नमस्कार करके प्रकृतिसमुत्कीर्तन नामक अधिकारको कहता हूँ ॥१॥
प्रकृति शब्दका अर्थ तथा जीव-कर्मके सम्बन्धकी अनादिता- प्रकृति, शील और स्वभाव ये कर्मके पर्यायवाची नाम हैं । जीव और कर्मका सम्बन्ध
१. त क विभूसणं । २. गो० क० १ । ३. गो० क० २।
1. जन्दी । 2. ब मल्लादि। 3. ब कीर्तिकं। 4. ज सिद्धान्तस्य परिज्ञान । 5.ख नेमि । 6. ब कुर्वन्नाह । 7. ब अहं कविः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org