SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [निबिडाः, निबिरीसाः केशाः] नि-नीरन्ध्राः = निबिडाः, निबिरीसा: केशाः । अनेन बिड-बिरीसप्र० । [निबिडम्, निबिरीसं वस्त्रम् ] नि-नासिकाया नमनं = निबिडम्-निबिरीसम् । अनेन बिड-बिरीसप्र० । [निबिडा, निबिरीसा नासिका ] नासानतिमती = निबिडा, निबिरीसा नासिका । अनेन बिड-बिरीसप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [निबिडो निबिरीसो मैत्रः] नासानतिमान् = निबिडो, निबिरीसो मैत्रः । अनेन बिड-बिरीसप्र० । विधानसामर्थ्यात् षत्वं न भवति ॥छ। - क्लिन्नालश्चक्षुषि चिल्-पिल्-चुल् चास्य ॥ ७।१।१३० ॥ [क्लिन्नात् ] क्लिन्न पञ्चमी ङसि । [लः] ल प्रथमा सि । [चक्षुषि ] चक्षुस् सप्तमी ङि । [चिल्पिल्चुल्] चिल् च पिल् च चुल् च = चिल्पिल्चुल् । [च] च प्रथमा सि । [अस्य ] इदम् षष्ठी ङस् । [चिल्लम्, पिल्लम्, चुलं चक्षुः] क्लिन्न मण्ड्यते । क्लिन्नं चक्षुः = चिल्लम्, पिल्लम्, चुल्लम् । अनेन लप्र० - क्लिन्नस्य च चिल्-पिल्-चुल्देशः । उपत्यका-ऽधित्यके ॥७।१।१३१ ॥ [उपत्यका-ऽधित्यके ] उपत्यका च अधित्यका च = उपत्यका-ऽधित्यके । औ । 'औता' (१।४।२०) ए । [उपत्यका] उप-पर्वतस्याऽऽसन्ना भूमिः = उपत्यका । अनेन उपशब्दात् त्यकप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [अधित्यका] अधि-पर्वतमधिरूढा भूः = अधित्यका । अनेन अधिशब्दात् त्यकप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । क्षिपकादित्वादित्वाभावः । स्वभावतः स्त्रीलिङ्गावेतौ ॥छ।। अवेः सङ्घात-विस्तारे कट-पटम् ॥ ७।१।१३२ ॥ [अवेः] अवि पञ्चमी ङसि । [सङ्घातविस्तारे] सङ्घातश्च विस्तारश्च = सङ्घातविस्तारम्, तस्मिन् । [कटपटम् ] कटश्च पटश्च = कटपटम् । [अविकटः] अवि । अवीनां सङ्गातः = अविकटः । अनेन कटप्र० । [अविपटः] अवि । अवीनां विस्तारः = अविपट: । अनेन पटप्र० ॥छ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy