________________
४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[सहे] सह सप्तमी ङि। [हिमेलुः] हिमस्य सहः-हिमं सहमानो वा = हिमेलुः । अनेन एलुप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।,
बल-वातादूलः ॥ ७।१।९१ ॥
[बलवातात् ] बलश्च वातश्च = बलवातम्, तस्मात् ।
[ऊलः] ऊल प्रथमा सि । [बलूलः ] बलस्य सहः-बलं सहमानः = बलूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वातूलः ] वातस्य सहः = वातूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।
शीतोष्ण-तृप्रादालुरसहे ॥ ७।१।९२ ॥ [शीतोष्णतृप्रात् ] शीतश्च उष्णश्च तृप्रश्च = शीतोष्णतृप्रम्, तस्मात् । [ आलुरसहे] आलु प्रथमा सि । न सहः = असहस्तस्मिन् । [शीतालुः] शीतस्यासहः-शीतमसहमानः = शीतालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [उष्णालुः] उष्णस्यासहः-उष्णमसहमानः = उष्णालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[ तृप्रालुः ] तृप्रं-दुःखम्, तस्यासहः-तृप्रमसहमानः = तृप्रालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
यथामुख-सम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७।१।९३ ॥ [ यथामुखसम्मुखात् ] यथामुखश्च सम्मुखश्च = यथामुखसम्मुखम्, तस्मात् । [ईनः] ईन प्रथमा सि । [तद्] तद् प्रथमा सि । [दृश्यतेऽस्मिन् ] दृश्यतेऽस्मिन् सप्तमी ङि । सूत्रत्वाल्लोपः ।
[यथामुखीन आदर्शादिः] यथामुखं दृश्यतेऽस्मिन् = यथामुखीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, आदर्शादिः । मुखस्य सदृशोऽर्थो यथामुखं-प्रतिबिम्बमुच्यते । अत एव निपातनात् 'यथाऽथा' (३।१।४१) इति प्रतिषेधेऽप्यव्ययीभावः ।
[सम्मुखीनः ] समं मुखं = सम्मुखम् । समं तुल्यं मुखमस्यानेनेति वा = सम्मुखं प्रतिबिम्बमेव । अत एव निपातनात् समशब्दस्य अकारलोपः । सम्मुखं दृश्यतेऽस्मिन्निति सम्मुखीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अभिमुखमित्यर्थः ।
[यथामुखीन: सीतायाः] यथामुखीन: सीतायाः-अग्रेभवनमात्रमत्र साम्यम् । आर्दशो ह्यग्रेभवत्येवं हनूमानमपि सीताया अग्रे भवति । सीताग्रे तिष्ठतीत्यर्थः ॥छ।।
सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ॥ ७।१।९४ ॥ [सर्वादेः] सर्व आदिर्यस्य सः = सर्वादिः, तस्मात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org