________________
सप्तमाध्यायस्य प्रथमः पादः ॥
२९
[म्रदिमा, मृदुत्वम्, मृदुता, मार्दवम् ] मृदु । मृदोर्भावः = म्रदिमा । अनेन इमन्प्र० । 'पृथु-मृदु-भृश-कृश-दृढपरिवृढस्य ऋतो रः' (७।४।३९) रत्वम् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१२९१) नलुक् । एवम्-मृदुत्वम्, मृदुता । 'प्राक्त्वादगडुलादेः' (७।१।५६) त्व-तलप्र० । एवम्-मार्दवम् । 'य्ववर्णाल्लघ्वादेः' (७१।६९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[बंहिमा, बहुलत्वम्, बहुलता, बाहुल्यम्] बहुल । बहुलस्य भावः = बंहिमा । अनेन इमन्प्र० । 'प्रिय-स्थिरस्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-रफा-वर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम्' (७४।३८) बहुलस्य बंहभावः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-बहुलत्वम्, बहुलता । 'प्राक्त्वादगडुलादेः' (७१।५६) त्व-तल्प० । एवम्-बाहुल्यम् । 'पतिराजान्तगुणाङ्ग०' (७१२६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[वत्सिमा, वत्सत्वम्, वत्सता, वात्सम्] वत्सस्य भावः = वत्सिमा । अनेन इमन्प्र० । एवम्-वत्सत्वम्, वत्सता । 'प्राक्त्वादगडुलादेः' (७१५६) त्व-तलप्र० । एवम्-वात्सम् । 'प्राणिजाति-वयोऽर्थाद' (७११६६) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । गणोऽत्र ॥छ।
वर्ण-दृढादिभ्यष्ट्यण च वा ॥ ७१५९ ॥ [वर्णदृढादिभ्यः] वर्णश्च दृढादयश्च = वर्णदृढादयस्तेभ्यः । [ट्यण् ] ट्यण् प्रथमा सि । [च] च प्रथमा सि । [वा] वा प्रथमा सि ।
[शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता] शुक्लस्य भावः = शौक्ल्यम्, शुक्लिमा । अनेन ट्यणप्र० → य - इमन्प्र० । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-शुक्लत्वम्, शुक्लता । 'प्राक्त्वादगडुलादेः' (७१५६) त्व-तलप्र० → त ।
[कार्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता] कृष्णस्य भावः = काय॑म् कृष्णिमा । अनेन ट्यणप्र० → य - इमन्प्र० । वृद्धिः आर् । शेषं पूर्ववत् । अग्रेऽपि पूर्ववत् ।
[काद्रव्यम्, कद्रिमा, कद्रुत्वम्, कद्रुता] कदु । कद्रो वः = काद्रव्यम्, कद्रिमा । अनेन ट्यणप्र० → य - इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । शेषं पूर्ववत् । .. [शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम् ] शिति । शितेर्भावः = शैत्यम्, शितिमा । अनेन ट्यणप्र० → य - इमन्प्र० । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । शेषं पूर्ववत् । एवम्-शैतम् । 'यवृवर्णाल्लघ्वादेः' (७।१।६९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । .
[दायम्, द्रढिमा, दृढत्वम्, दृढता] दृढस्य भावः = दाढयम्, द्रढिमा । अनेन ट्यणप्र० → य - इमन्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आर् । 'पृथु-मृदु-भृश-कृश-दृढ०' (७।४।३९) इत्यादिना रत्वम् । अग्रे पूर्ववत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org