SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [लावणसैन्धवः ] लवणप्रधानाः सिन्धवः = लवणसिन्धवः, तेषु भवः = लावणसैन्धवः । 'कोपान्त्याच्चाण' (६।३।५६) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [माहासैन्धवः ] महान्तश्च ते सिन्धवश्च = महासिन्धवः । 'जातीयैकार्थेऽच्वेः' (३।२७०) डा० । 'डित्यन्त्यस्वरादेः'' (२।१।११४) अत्लुक् । महासिन्धुषु भवः = माहासैन्धवः । 'कोपान्त्याच्चाण' (६।३।५६) अणप्र० → अ । अनेन उभयपदवृद्धिः । [सौरसैन्धवः ] सुराणां सिन्धवः = सुरसिन्धवः, तेषु भवः = सौरसैन्धवः । 'कोपान्त्याच्चाण' (६।३।५६) अण्प्र० → अ । अनेन उभयपदवृद्धिः ॥छ।। प्राचां नगरस्य ॥ ७।४।२६ ॥ [प्राचाम्]। [नगरस्य ] नगर षष्ठी ङस् । [ सौह्मनागरः ] सुसनगरे भवः = सौह्मनागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [पौण्डुनागरः] पुण्डनगरे भवः = पौण्डनागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । पुण्डमडाश्च पुरुषविशेषाः ।। [वाजनागरः] वजनगरे भवः = वाजनागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [वैराटनागरः] विराटनगरे भवः = वैराटनागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [गैरिनागरः] गिरिनगरे भवः = गैरिनागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [उदीचां माडनगरः] उदीचां मडनगरे भवः = माडनगरः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ। अनुशतिकादीनाम् ॥ ७।४।२७ ॥ [अनुशतिकादीनाम् ] अनुशतिक आदिर्येषां ते = अनुशतिकादयः, तेषाम् । [आनुशातिकम् ] शतेन क्रीतः = शतिकः । 'शतात्-केवलादतस्मिन् येकौ' (६।४।१३१) इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । शतमस्यास्तीति शतिकः । 'अतोऽनेकस्वरात्' (७।२।६) इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । शतिकमनुगतोऽनुशतिकः, अनुशतिकस्येदम् = आनुशातिकम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [आनुशातिकिः] अनुशतिकस्यापत्यम् = आनुशातिकिः । 'अत इज' (६।१।३१) इप्र० + इ । अनेन उभयपदवृद्धिः । [आनुहौडिकः ] अनुहोडेन चरति = आनुहौडिकः । 'चरति' (६।४।११) इकण्प्र० → इक । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [आनुहारतः ] अनुहरतोऽपत्यम् = आनुहारतः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । अनेन उभयपदवृद्धिः । [आस्यहात्यम् ] अस्यहत्यशब्दोऽस्मिन् अध्यायेऽनुवाके वा अस्ति = आस्यहात्यम् । 'विमुक्तादेरण' (७२।७३) अण्प्र० → अ । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy