SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ २९५ [अर्द्धपाञ्चालकः] अर्द्ध पञ्चालानाम् = अर्द्धपञ्चालाः, तेषु भवः = अर्द्धपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [सुमागधकः] मगधस्यापत्यानि । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । शोभनेषु मगधेषु भवः = सुमागधकः । 'बहुविषयेभ्यः' (६।३।४४) अकञ्प्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [सर्वमागधकः] सर्वेषु मगधेषु भवः = सर्वमागधकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अर्द्धमागधकः] अर्द्ध मगधानाम् = अर्द्धमगधाः । अर्द्धमगधेषु भवः = अर्द्धमागधकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [सौगन्धिकः ] शोभनो गन्धो येषां ते = सुगन्धाः । सुगन्धाः पण्यमस्य = सौगन्धिकः । 'तदस्य पण्यम्' (६।४।५४) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [आर्द्धपिप्पलः] अर्द्धपिप्पल्यां भवः = आर्द्धपिप्पलः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ॥छ।। अमद्रस्य दिशः ॥ ७।४।१६ ॥ [अमद्रस्य] न मद्रः = अमद्रस्तस्य । 'नजत्' (३।२।१२५) न० → अ० । [दिशः ] दिश् पञ्चमी ङसि । [पूर्वपाञ्चालकः] पूर्वेषु पञ्चालेषु भवः = पूर्वपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णवर्णस्य' (७४।६८) अलुक् । [अपरपाञ्चालकः] अपरेषु पञ्चालेषु भवः = अपरपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अक० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [दक्षिणपाञ्चालकः] दक्षिणेषु पञ्चालेषु भवः = दक्षिणपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकप्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [उत्तरपाञ्चालकः] उत्तरेषु पञ्चालेषु भवः = उत्तरपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकञ्प्र० → अक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पौर्वमद्रः ] पूर्वेषु मद्रेषु भवः = पौर्वमद्रः । 'मद्राद' (६।३।२४) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पौर्वपञ्चालकः] पूर्व भागान्तरं पञ्चालानां = पूर्वपञ्चालाः । 'पूर्वा-उपरा-ऽधरोत्तरमभिन्नेनांशिना' (३११५२) इत्यादिना समासः, तेषु भवः = पौर्वपञ्चालकः । 'बहुविषयेभ्यः' (६।३।४४) अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [पौर्वपञ्चालः] पूर्वपञ्चालेषु भवः = पौर्वपञ्चालः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy