SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २५३ [अदशाः] न दश = अदशाः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । न्यूना दश इत्यर्थः । [अनवाः] न नव = अनवाः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । न्यूना दश इत्यर्थः । नपूर्वोऽयं वैकल्ये हीनतायां दृश्यते । [निस्त्रिंशः खड्गः ] निर्गतस्त्रिंशतोऽङ्गुलिभ्यः = निस्त्रिंशः खड्गः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१।४७) समासः । [निस्त्रिंशः खलः] निस्त्रिंश इव क्रूरकर्मा = निस्त्रिंशः खलः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लु क् । [निस्त्रिंशानि वर्षाणि] त्रिंशतो निर्गतानि = निस्त्रिशानि वर्षाणि । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [निस्त्रिशान्यहानि] त्रिंशतो निर्गतानि = निस्त्रिशान्यहानि । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः (१।४।८५) दीर्घः । [निश्चत्वारिंशानि] चत्वारिंशतो निर्गतानि = निश्चत्वारिंशानि । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अत्लुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [मिष्पञ्चाशानि] पञ्चाशतो निर्गतानि = निष्पञ्चाशानि । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१११४) अत्लुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [गोत्रिंशत् ] गवां त्रिंशत् = गोत्रिंशत् । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । नग्रहणं 'नञ्तत्पुरुषात्' (७।३७१) इति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । [निःशकृत् ] शकृतो निर्गतं = निःशकृत् । प्रथमा सि । [अत्रिः] न विद्यन्ते त्रयो यस्य सोऽत्रिः । [सुत्रिः] शोभनास्त्रयो यस्य = सुत्रिः । [निस्त्रिंशत् ] निर्गतास्त्रिंशदस्य = निस्त्रिंशत् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ॥छ।। संख्या-ऽव्ययादङ्गुलेः ॥ ७।३।१२४ ॥ [संख्याऽव्ययात् ] संख्या च अव्ययं च = संख्याऽव्ययम्, तस्मात् । [अङ्गुलेः] अङ्गुलि पञ्चमी ङसि । [द्वयङ्गुलम् ] द्वयोरङ्गुल्योः समाहारः = व्यङ्गुलम् । - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy