________________
१५४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[च्चौ] च्चि सप्तमी ङि ।
[अरूकरोति, अरूभवति, अरूस्यात् ] अनरु: अरुः करोति = अरूकरोति । अनरुः अरुः भवति = अरूभवति । अनरुः अरुः स्यात् = अरूस्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७२।१२६) विप्र० । अनेन लुक् सकारस्य । 'दीर्घश्च्वि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः ।
[महारूकरोति, महारूभवति, महारूस्यात्] महदर्यस्य = महारुः । 'जातीयैकार्थेऽच्चेः' (३।२७०) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लुक् । अमहारुषं महारुषं करोति = महारूकरोति । अमहारु: महारुर्भवति = महारूभवति । अमहारु: महारुः स्यात् = महारूस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (७२।१२६) च्विप्र० । अनेन सलुक् । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः ।
[मनीकरोति, मनीभवति, मनीस्यात् ] अमनो मनः करोति = मनीकरोति । अमनो मनोभवति = मनीभवति । अमनो मनः स्यात् = मनीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (७२।१२६) च्विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० ।
[उन्मनीकरोति, उन्मनीभवति, उन्मनीस्यात्] उद्गतं मनो यस्य स = उन्मनाः । अनुन्मनसं उन्मनसं करोति = उन्मनीकरोति । अनुन्मना उन्मना भवति = उन्मनीभवति । अनुन्मना उन्मनाः स्यात् = उन्मनीस्यात् । 'कृ-भ्वस्तिभ्यां०' (७।२।१२६) च्विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० ।
[चर्करोति, चर्भवति, चक्षूस्यात्] अचक्षुः चक्षुः करोति = चर्करोति । अचक्षुः चक्षुर्भवति = चक्षूभवति । अचक्षुः चक्षुः स्यात् = चक्षूस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (७।२।१२६) च्विप्र० । अनेन सलुक् । 'दीर्घश्च्वि०' (४।३।१०८) दीर्घः ।।
[उच्चस्करोति, उच्चक्षूभवति, उच्चक्षूस्यात् ] उद्गतं चक्षुर्यस्य । अनुच्चक्षुषं उच्चक्षुषं करोति = उच्चक्षूकरोति । अनुच्चक्षुः उच्चक्षुर्भवति = उच्चक्षूभवति । अनुच्चक्षुरुच्चक्षुः स्यात् = उच्चक्षूस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (१२।१२६) विप्र० । अनेन सलुक् । 'दीर्घश्च्वि०' (४।३।१०८) दीर्घः । 'अप्रयोगीत्' (११।३७) विलोपः । .
[चेतीकरोति, चेतीभवति, चेतीस्यात् ] चेतस् । अचेतश्चेतः करोति = चेतीकरोति । अचेतश्चेतोभवति = चेतीभवति । अचेतश्चेत: स्यात् = चेतीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) च्विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ०'→ ई० । 'अप्रयोगीत्' (१।१।३७) विलोपः ।
[विचेतीकरोति, विचेतीभवति, विचेतीस्यात् ] विशिष्टं चेतो यस्य सः = विचेताः । अविचेतसं विचेतसं करोति = विचेतीकरोति । अविचेतो विचेतोभवति = विचेतीभवति । अविचेतो विचेतः स्यात् = विचेतीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म०' (७२।१२६) च्विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३१११) अ० → ई० । 'अप्रयोगीत्' (१।१।३७) विलोपः ।
[रहीकरोति, रहीभवति, रहीस्यात् ] अरहो रहः करोति = रहीकरोति । अरहो रहोभवति = रहीभवति । अरहः रहः स्यात् = रहीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) च्विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० । 'अप्रयोगीत्' (१।१।३७) च्विलोपः ।
[विरहीकरोति, विरहीभवति, विरहीस्यात् ] विगतं रह:-एकान्तं यस्य । अविरहसं विरहसं करोति = विरहीकरोति । अविरहो विरहोभवति = विरहीभवति । अविरहो विरहः स्यात् = विरहीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) विप्र० । अनेन सलुक् । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० । 'अप्रयोगीत्' (१११३७) विलोपः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org