SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [यर्हि ] यस्मिन्ननद्यतने काले यहि । अनेन हिप्र० । 'आ द्वेरः' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । १३८ [ तर्हि ] तस्मिन्ननद्यतने काले = तर्हि । अनेन हिप्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [ अन्यर्हि ] अन्यस्मिन्ननद्यतने काले अन्यहि । अनेन प्रि० । [ एतर्हि ] एतस्मिन् काले = एतर्हि । अनेन हिप्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । एतदः साकस्य इदमस्तु अनेन नेष्यते । = [ अमुर्हि ] अदस् । अमुष्मिन् काले = अमुर्हि । अनेन हिप्र० । 'आ द्वेरः' (२।१।४१) स०अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । ‘मोऽवर्णस्य' (२।१।४५) द० म० । 'मादुवर्णोऽनु' (२|१|४७) अ० उ० । [ बहुर्हि ] बहुषु कालेषु = बहुर्हि । अनेन हिप्र० । [ यत्र ] यस्मिन्ननद्यतने भोजने = यत्र । 'सप्तम्याः' (७।२।९४) त्रप्प्र ० ० । [ यदा] यस्मिन् काले = यदा । 'किम्-यत्-तत्- सर्वैका - ऽन्यात् काले दा' (७|२|९५) दाप्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [ कदा] कस्मिन् काले = कदा । ‘किम्-यत्-तत्- सर्वैका - ऽन्यात् काले दा' (७।२।९५) दाप्र० । [ यदा] यस्मिन् काले = यदा । ‘किम्-यत्-तत्- सर्वैका - ऽन्यात् काले दा' (७।२।९५) दाप्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । = [ तदा] तस्मिन् काले = तदा । 'किम्-यत्-तत्- सर्वैका - ऽन्यात् काले दा' (७२।९५) दाप्र० । 'आ द्वेरः ' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [ तदानीम् ] तस्मिन् काले तदानीम् । ‘सदा-ऽधुनेदानीं तदानीमेतर्हि' (७२।९६) दानीम्प्र० । 'आ द्वेरः ' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [ अन्यदा ] अन्यस्मिन् काले = अन्यदा । ‘किम्-यत्-तत्- सर्वैका - ऽन्यात् काले दा' (७ २९५) दाप्र० । । शेषं पूर्ववत् । अत्र पश्चात् [ अमुत्र काले ] अमुष्मिन् = अ (मु)त्र काले । 'सप्तम्याः' (७२।९४) त्रप्प्र० काले इत्यनेन सम्बन्धः ||छ|| प्रकारे था || ७|२।१०२ ॥ Jain Education International = = [ प्रकारे ] प्रकार सप्तमी ङि । [ था ] था प्रथमा सि । सप्तम्या इति निवृत्तम् । इष्टितो ह्यधिकाराणां प्रवृत्तिर्निवृत्तिर्वा यथाविभवं (सम्भवं ) विभक्ति: । सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः । [ सर्वथा ] सर्वेण प्रकारेण सर्वथा । अनेन थाप्र० । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy