________________
विभाग-४, लघुवृत्तिः
२१३ व्याख्या-येषां स्थिति प्रेक्ष्य लोकाः सोपहासवचसः स्युरिति सम्बन्धः । कथमित्याह-अहो इति विस्मये, सितपटाः-श्वेताम्बराः 'कष्टं' दुष्करं 'चरन्ति' अनुतिष्ठन्ति 'व्रतं' प्रव्रज्यां, महदाश्चर्यमेतत्-यत्-सितपटाः कलावप्येवंविधं व्रतकष्टमनुभवन्ति, नहि सम्प्रतितनैर्मानवैरल्पसत्त्वैरेवंविधं कष्टं कर्तुं शक्यते, अथ च सर्वैरप्येवंरूपं व्रतं कर्तुं पार्यत एव, सुखहेतुत्वादित्युपहासः । अथ कथमेवमुपहासः तेषां तैः क्रियते ? इत्यत आह-'साधुव्याजेन' यतिछद्मना विटाः, नामी साधवः तल्लक्षणायोगात्, किन्तु तद्व्याजेन विटाः, सकलतल्लक्षणोपपत्तेः । तदेवाह-'देवार्थव्ययतो' देवगृहाधिपत्ये न तद्रविणस्य तदधीनत्वात् जिनवित्तविनियोगेन 'यथारुचि' स्वमनोऽभिलाषानुरूपमित्यर्थः । 'कृते' निष्पादिते 'सर्वर्तुरम्ये' सकलवसन्तादिरूपताविभक्तकालविशेषमनोहरे मढे प्रतीते, तत्र 'नित्यस्थाः' सततवासिनः, सुविहिता हि देवद्रव्योपभोगभयात् यतिनिमित्तनिर्मितत्वेन महासावद्यत्वाच्च मढे न वसन्ति, किन्तु याचिते यादृशि-तादृशि परगृहादावेव, तत्रापि ना[ न ]वरतं वसन्ति, नित्यवासस्य च यतीनां श्राद्धादिप्रतिबन्धलाघवादिहेतुत्वेन प्रतिषेधात्, उद्यतविहारस्यैव ममकाराचुच्छेदनिमित्तत्वेनाभिधानात् । एते तु सातलम्पटतया मठे नित्यकृतस्थितयो विलसन्तीति कथं न भवन्ति विटाः ? । तथा 'शुचयो' निर्मलाः ‘पट्टतूल्यः' पट्टांशुकसंवीता हंसरूतादिमयाः शय्याविशेषाः, यद्वा ‘पट्टाः' श्रीपर्णादिदारुनिर्मिताः ताः 'शयनं' शयनीयं येषां ते तथा, साधवो हि कम्बलादिसंस्तारक एव शेरते, न पट्टतूल्यादिषु तासां प्रमार्जनाद्यशुद्धे विभूषासातशीलत्वव्यञ्जकत्वाल्लोकोपहासहेतुत्वाच्च, एते तु तत्र शयाना विटत्वं प्रकटयन्ति । तथा 'सद्गब्दिकाद्यासना' शोभनगब्दिकाद्यासनाः-शोभनगब्दिकामसूरकादिविष्टरभाजः, गब्दिकाद्युपवेशने च दोषा मुनीनां प्रागेवोक्ताः । 'सारम्भाः' मठ-वाटिका-कृष्यादि-महासावद्याव्यापारकरणकारण-प्रवणा: 'सपरिग्रहाः' गृहिवत् वाणिज्यादिप्रयोजनेन धनधान्यस्नेहादिभाण्डसङ्ग्रहपरायणाः 'सविषयाः' चक्षुरादीन्द्रियानुकूल-नर्तकीदर्शन-ताम्बूलस्वादन-चन्दनाद्यङ्गरागगन्धर्वगीत-श्रवणादिविषय सततानुषक्तचेतसः 'सेा' विषयासक्तत्वात् कामुकवत्स्वाभिमतां योषितमन्येन सार्द्धमालापादिविदधानामवेक्ष्य तं प्रत्यक्षमाभाजः 'सकाङ्क्षाः' सम्भोगविलासाभ्यासात्प्रतिक्षणं नवनवोपजायमानरिरंसोत्कलिकाः । आरम्भादयश्च यतीनां बहुदोषत्वादनेकधा निषिद्धा एव । 'सदा' सर्वदा, विषयाणामनादिभवाभ्यासात्, कदाचित् सन्मुनेरपि कस्यापि चेतोविकारमानं प्रादुःष्यात्, न तु सर्वदा, तदैव तेषां ज्ञानाङ्कुशेन स्वचित्तमाकृष्य मिथ्यादुष्कृतादिप्रायश्चित्तप्रतिपत्तेः, इति साधूक्तं-'साधुव्याजविटा' इति ॥२४॥ ___'इति' उक्तप्रकाराणि, आदिशब्दात् अन्यान्यप्येवं प्रायाणि विडम्बनाव्यञ्जकानि वचांसि गृह्यन्ते । ततश्च इत्यादीनि-उद्धतानि-बहुजनवदनस्य मुद्रयितुमशक्यत्वात्निश्शङ्कतयोद्भटानि,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org