________________
२१२
श्री सङ्घपट्टकः 'एकदा' कदाचिदष्टम्यादितिथिषु प्रमादबाहुल्येन नित्यप्रत्याख्यानाभावात् 'प्रत्याख्याय' नियम्य, तदपि कदाचितकृतमेकाशनादि 'न रक्षतो'ऽनाभोगसहसात्कारादिना न पालयतोभञ्जत इत्यर्थः । 'हदि' चेतसि भवेत्'-जायेत. 'तीव्रो' निष्ठरोऽनुतापो-बहुना कालेन तावदद्य प्रत्याख्यानं कृतं तदपि मया मन्दभाग्येन भग्नमतो धिङ्मां, कथं मे शुद्धिर्भविष्यतीत्येवंरूपः पश्चात्तापः 'सदा सर्वदा यावद्भङ्ग-प्रायश्चित्तं गुरुभ्यो नासादयति । 'षट्कृत्वः' त्रीन् वारान्सायन्तनप्रतिक्रमणे त्रीश्च प्रगेतनप्रतिक्रमणे षड्वारान् “सङ्ख्याया वारे कृत्वस् तद्धितः" त्रिविधं त्रिविधेनेति, अनेन सामायिकसूत्रमुपलक्षयति, किल साधवः सायन् प्रातश्च प्रतिक्रमणे सामायिकसूत्रमुच्चारयन्तस्त्रिविधं त्रिविधेनेति पठन्ति, यथा-"[करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए कारण"मित्यादि] । तत्र त्रिविधमिति तिस्त्रो विधा यस्येति त्रिविधं-कृतकारितानुमतलक्षणं, त्रिविधेति त्रिविधेन करणेन . मनोवाक्कायरूपेण सावधं योगं प्रत्याख्यामि इत्येवंरूपतया 'अनुदिनं' प्रतिवासरं 'प्रोच्य' अभिधाय-प्रतिज्ञायापीत्यर्थः, अप्रतिज्ञातानुष्ठानस्य हि भड्रेनापि न तथा दोष इत्यपि शब्दार्थः । 'भञ्जन्ति' खण्डयन्ति ये लिङ्गमात्रवृत्तयः तेषां । 'तु' गृहिणोभेदप्रदर्शनार्थः, क्व शब्दाः सर्वेऽप्यक्षमाव्यञ्जकाक्षेपार्थाः । 'तपो'ऽनशनादि, नित्यप्रत्याख्यानस्य सर्वसावद्ययोगविरतिरूपस्य सकललोकसमक्षमभ्युपेतस्य भङ्गप्रदर्शनेन नैमित्तिकप्रत्याख्यानमस्यापि कथञ्चिल्लोकपङ्क्त्या विहितस्योपवासादेः भङ्गानुमानात्-नास्त्येव तेषां क्वचित्तपः । क्व 'सत्यवचनं' तथ्यवाक् ?, सर्वं सावधं योगं न करोमीत्यभिधाय पुनस्तत्क्षणमेव तन्निषेवणात्, प्रत्यक्षमृषावादिताप्रसङ्गेनांशेनापि सत्यवचनाभावात् । क्व 'ज्ञानिता' सिद्धान्तरहस्यपरिच्छेत्तृत्वं ?, ज्ञानस्य हि फलं विरतिः तस्याश्च सातशीलतया तैः समूलमुन्मूलनात् तथा च कथञ्चित्सतोऽपि ज्ञानस्याकिञ्चित्करत्वेन तदाभासत्वात्, ज्ञानगन्धोऽपि तेषां नास्तीति । क्व 'व्रतं' दीक्षा, दीक्षोपादानेऽपि प्रत्याख्यानभादलीकभाषणेन दीक्षाया अपार्थक्यापादनाद् व्रतं तेषां नास्ति । अत्र चासकृत्क्वशब्दोपादानेन लोके लोकोत्तरे च तत्तपःप्रभृतेः तपस्त्वादिकं न सम्भवतीति ज्ञाप्यते, तेनायमाशयः-यदा किल गृहिणोऽपि सततं गृहारम्भसंरम्भवत्वात्प्रमादभरनिर्भरा अप्यनवगतत्तत्त्वा अपि कदाचित्प्रत्याख्यानभङ्गेनैवमनुतप्यन्ते, तदा सुतरां यतीनां सर्वसावद्ययोगविरतानां विदितागमसाराणां कथञ्चित् विरतिभङ्गे पश्चात्तापः प्रायश्चित्तग्रहश्च युक्तः, ये तु निश्शूकतया तां भञ्जन्तो मनाग्लज्जामपि नादधति तेषां नास्त्येव तपःप्रभृतीति वृत्तार्थः ॥२३॥ इदानीं तेषां लोकोपहासपुरस्सरं जिनपथपरिपन्थित्वं वृत्तद्वयेन प्रकटयन्नाह
देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे ॥२४॥ इयाद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम् ॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org