SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ३८३-३८४-३८५-३८६ देवतापुरतो वापि, जले वाऽकलुषात्मनि । विशिष्टद्रुमकुञ्जे वा, कर्तव्योऽयं सतां मतः ॥ ३८३ ॥ देवताया-निष्कलदेवतारूपायाः पुरतोऽग्रतः वापीति विकल्पे वा 'जले वाऽकलुषात्मनि'-स्वच्छस्वभावेऽकलुषजलसमीपे वेत्यर्थः 'विशिष्टद्रुमकुञ्जे वा' बहलपत्रपुष्पफलशालिनां वनस्पतीनां गहने वा कर्तव्योऽयं जपः सतां मतः २६२ ॥३८३॥ पर्वोपलक्षितो यद्वा, पुत्रजीवकमालया । नासाग्रस्थितया दृष्टया, प्रशान्तेनान्तरात्मना ॥ ३८४ ॥ ‘पर्वोपलक्षितः’-कराङ्गुलीपर्वप्रादक्षिण्यचिह्नतः 'यद्वा' इति पक्षान्तरे 'पुत्रंजीवकमालया'- रुद्राक्षनामकवनस्पतिफलमालया 'नासाग्रभागप्रतिबद्धयां दृष्ट्या' प्रतीतरूपया तथा प्रशान्तेन - प्रशमभाजा अन्तरात्मना मनोरूपेण ॥३८३॥ तत्र च यत्कृत्यान्तरं तदाह विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चालम्बने चैव, त्यागश्चोपप्लवे सति ॥ ३८५ ॥ विधाने जपविषये चेतसो - मनसो वृत्तिः 'तद्वर्णेषु' सन्मन्त्राक्षररूपेषु तथा इति समुच्चये इष्यते - मन्यते मतिमद्भिः अर्थे चाभिधेये 'आलम्बने चैव' प्रतिमादौ चेतसो वृत्तिः । त्यागश्चोपसंहारः पुनर्जपस्य उपप्लवे मनोविस्रोतसिकारूपे सति ॥३८५ ॥ अथैतत्त्यागफलमाह मिथ्याचारपरित्याग आश्वासात्तत्र वर्तनम् । तच्छुद्धिकामता चेति, त्यागोऽत्यागोऽयमीदृशः ॥३८६ ॥ उपप्लवावस्थायां जपपरित्यागे सति मिथ्याचारस्यान्तरनिरुद्धेन्द्रियादिविकारस्य प्रणिधानाद्यद्बहिः प्रशान्ताकारकरणं तल्लक्षणस्य 'परित्यागः ' ं, तथा आश्वासात्-त्राणपरिणामात् तत्र - जपे वर्तनं प्रवृत्तिः कृता भवति । मा भूदन्यथा ममा 'मत्राधिकारीति भावः । 'तच्छुद्धिकामता च'- तच्छुद्धौ कामोऽभिलाषो यस्य स तथा तद्भावस्तत्ता सा चेत्येवं कारणत्रयात् त्यागो-जपस्य किमित्याह अत्यागः-‘अनुष्ठानं, ‘अयमीदृश: ' उपप्लवकालभाव: (भावी) शुद्धजपफलत्वा १. नासिकाग्र भाग - A.B; २. यान्तरानिरुद्धे - A.B; ३. मत्राणकारीति - A; ४. अनुज्झनं - A. ; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy