________________
योगबिन्दु सूत्र : ३८०-३८१-३८२
२६१ हि:-स्फुटवृत्त्या अयमध्यात्मादिभेदः ।आद्यन्तौ तु पुनराद्यन्तावेव पुनरध्यात्मवृत्तिसंक्षयलक्षणौ भेदौ स्पष्टं-स्फुटं ब्रूमोऽस्यैव योगस्य विशेषतो-विशेषेण ॥ 'एतदेवाह
तत्त्वचिन्तनमध्यात्ममौचित्यादियुतस्य तु ।
उक्तं विचित्रमेतच्च, तथावस्थादिभेदतः ॥३८०॥ 'तत्त्वचिन्तनं'-परमार्थभावनारूपं अध्यात्म औचित्येन-सर्वार्थगोचरेण आदिशब्दान्मैत्र्यादिगुणैश्च युतस्य तु-युक्तस्यैव । उक्तं च "औचित्याद् वृत्तयुक्तस्य, वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः ॥" (श्लोक ३५८) इत्यनेन ग्रन्थेन विचित्रं-नानारूपम् । एतच्च-एतत्पुनरध्यात्मम् । कुत इत्याह तथा-तत्प्रकारा येऽवस्थादयो द्रव्यक्षेत्रकालभावाः तेषां भेदाःविशेषाः तेभ्य इति ॥३८० ॥ सत्र-.
आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते ।
देवतानुग्रहाङ्गत्वादतोऽयमभिधीयते ॥३८१॥ ___ आदिकर्मकं'-प्रधानधार्मिकलक्षणं आश्रित्य-अपेक्ष्य जपो हिकरजपादिरूप एव अध्यात्ममुच्यते । कुत इत्याह देवतानुग्रहाङ्गत्वात्देवतानुग्रहस्य तदुपकाररूपस्याङ्गत्वात्-कारणभावत्वात् । अत ऊर्ध्वम् अयं जपोऽभिधीयत इति ॥३८१॥ यथा,
जपः सन्मन्त्रविषयः स चोक्तो देवतास्तवः । . दृष्टः पापापहारोऽस्माद, विषापहरणं यथा ॥३८२॥
'जप:' पुनः पुनः परिवृत्तिरूप: सन्मन्त्रविषयो-विशिष्टमन्त्रगोचरः स च-स पुनमन्त्रः, उक्तों देवतास्तव:-ऋषभादिदेवतास्तवरूपः प्रणवनमः शब्दादिस्वा- हापर्यन्तः। अथास्य फलमाह 'दृष्टः पापापहारः'मिथ्यात्वादिपापप्रलयः, अस्मात्-सन्मन्त्ररूपाद्देवतास्तवात् विषापहरणं स्थावरजङ्गमरूपविषोत्तारणं यथा-तथाविधमन्त्रात् ॥३८२ ॥ यथाऽसौ कर्तव्यस्तथाह
१. एवमेवाह-A; २. आदिकर्मिक-AB:; ३. आदिकर्मिकं-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org