SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीमद्-हरिभद्रसूरि-संग्रथिता श्रीमद्-यशोविजयोपाध्यायविरचितव्याख्याविभूषिता योगविंशिका ॥ ऐं नमः ॥ अथ योगविंशिका व्याख्यायतेमुक्खेण जोयणाओ, जोगो सव्वो वि धम्मवावारो । परिसुद्धो विन्नेओ, ठाणाइगओ विसेसेण ॥ १ ॥ 'मुक्खेण' त्ति । 'मोक्षण' महानन्देन योजनात् 'सर्वोऽपि धर्मव्यापारः' साधोरालयविहारभाषाविनयभिक्षाटनादिक्रियारूपो योगो विज्ञेयः, योजनाद्योग इति व्युत्पत्त्यर्थानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् । कीदृशो धर्मव्यापारो योगः? इत्याह-'परिशुद्धः' प्रणिधानाद्याशयविशुद्धिमान्, अनीदृशस्य द्रव्यक्रियारूपत्वेन तुच्छत्वात् । उक्तं च-"आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ॥" (षोडशक ३/१२) 'एते' प्रणिधानादयः सर्वेऽपि कथञ्चिक्रियारूपत्वेऽपि तदुपलक्ष्या आशयभेदाः, अयं च पञ्चप्रकारोऽप्याशयो भावः, अनेन विना 'चेष्टा' कायवाड्मनोव्यापाररूपा द्रव्यक्रिया 'तुच्छा' असारा, अभिलषितफलासाधकत्वादित्येतदर्थः ॥ अथ के ते प्रणिधानाद्याशयाः ? उच्यते-प्रणिधानं प्रवृत्तिर्विघ्रजयः सिद्धिर्विनियोगश्चेति पञ्च । आह च - "प्रणिधि-प्रवृत्ति-विघ्रजय-सिद्धिविनियोगभेदतः प्रायः । धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधौ ॥" (षो. ३-६) इति । तत्र 'हीनगुणद्वेषाभावपरोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कर्तव्यतोपयोगः' प्रणिधानम् । उक्तं च-"प्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy