________________
एवं सिक्खासमावणे, गिहवासे वि सुव्वए । मुच्चई छविपव्वाओ, गच्छे जक्खसलोगयं ।। २४ ।। एवं शिक्षासमापन्नः गृहवासेऽपि सुव्रतः । मुच्यते छविपर्वतः गच्छेत् यक्षसलोकताम् ।।२४।। अह जे संवुडे भिक्खू, दुण्हमन्नयरे सिया । सव्वदुक्खप्पहिणे वा देवे वावि महिड्डिए || २५ ।।
1
अथ यः संवृतः भिक्षुः द्वयोरन्यतरः स्यात् । सर्वदुःखप्रहीणो वा, देवो वाऽपि महर्द्धिकः || २५ ।।
उत्तराइं विमोहाई, जुइमंताणुपुव्वसो । समाइण्णाई जक्खेहिं, आवासाइं जसंसिणो ||२६||
उत्तराः विमोहाः, द्युतिमन्तः अनुपूर्वतः । समाकीर्णाः यक्षैः, आवासाः यशस्विनः ||२६||
दीहाउया इड्डिमंता, समिद्धा कामरूविणो । अहुंणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ||२७ ।।
दीर्घायुषः ऋद्धिमन्तः समिद्धाः कामरूपिणः ।
अधुनोपपन्नसंकाशाः, भूयोऽर्चिर्मालिप्रभाः ||२७||
४६
Jain Education International
1
For Personal & Private Use Only
www.jainelibrary.org