________________
जैनन्यायपञ्चाशती
(३१)
एकस्मिन्नेवस्तुनि उत्पाद-व्यय- ध्रौव्याणि कथं तिष्ठन्तीति शंकां
स्याद्वादसरण्या समादधत् श्लोकयति
69
एक ही वस्तु में उत्पाद - व्यय और ध्रौव्य कैसे ठहरते हैं, इस शंका को स्याद्वादपद्धति से समाधान करते हुए श्लोक प्रस्तुत कर रहे हैं
ध्रुवत्वं द्रव्यसापेक्षमुत्पादो विगमस्तथा ।
पर्यायापेक्षमित्यत्र, स्यादवादः सुघटो भवेत् ॥ ३१ ॥
ध्रौव्य द्रव्यसापेक्ष है । उत्पाद और व्यय पर्यायसापेक्ष हैं। इस अपेक्षाभेद के आधार पर स्याद्वाद घटित होता है।
न्यायप्रकाशिका
जैनदर्शनानुसारं वस्तुनो लक्षणं कृतमस्ति उत्पादव्ययध्रौव्यात्मकं सत् इति । यस्मिन् वस्तुनि उत्पादो व्ययो ध्रौव्यं चैतत् त्रयं तिष्ठेत् तदेव सदिति । उत्पादस्यार्थोऽस्ति उत्तरोत्तराकारस्योत्पत्तिः । व्ययस्य अर्थोऽस्ति पूर्वाकारस्य विनाशः। उत्पादव्यययोरनयोः पर्याययोरन्वितं ध्रुवत्वमेव सत् । अत्र भवतीयं शंका यत् उत्पादो व्ययश्चेत्येतद् द्वयं परस्परं विरोधितत्त्वमस्ति । अस्यां स्थितौ कथमनयोः द्वयोर्विरोधिनो: एकत्र समवस्थानमिति ? अस्य प्रश्नस्योत्तरं ददता कारिकाकारेण दीयते उत्तरं यत् प्रत्येकं वस्तुनः अंशद्वयं भवति । एकस्तु द्रव्यांशः पर्यायांशस्तु द्वितीयः । तत्र द्रव्यांशस्तु वस्तुनः शाश्वतं रूपम् । तत्र न भवति किमपि परिवर्तनं विनाशो वा । अत एव वस्तुनो ध्रौव्यत्वं द्रव्यांशमादाय भवतीति न कापि विप्रतिपत्तिः । वस्तुनि यः खलु विकारो व्ययो वा भवति तत् सर्वं पर्यायापेक्षं भवति । अनेन प्रकारेण एकस्मिन्नेव वस्तुनि द्वौ विरोधिधर्मौ सहैव तिष्ठत एव । वस्तुतः द्रव्यं निरपेक्षसत्यम् । यदा तद् व्यवहारे प्रवृत्तं भवति तदा तत्र अपेक्षाया आवश्यकता भवति । तदैव तत्र स्याद्वादो घटितो भवति ।
जैनदर्शनमनेकान्तवादिदर्शनमस्ति । स्याद्वादः प्रतिपादनस्य पद्धतिरस्ति । वस्तुनो लक्षणे द्रव्यांशस्य अपेक्षया वस्तु नित्यमस्ति पर्यायांशस्य अपेक्षया च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org