SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जैनन्यायपञ्चाशती तद्विषयकप्रत्यक्षस्य बाधकं भवति। यत् वस्तु यस्य कार्यस्य प्रतिबन्धकं भवति तत्कार्यं तु तत्र नैव भवति।अतिसामीप्यं कस्यचिद्वस्तुनः प्रत्यक्षस्य बाधकमिति सिद्धान्तानुसारं दूरस्थान्येवाक्षराणि चक्षुषा द्रष्टुं शक्यन्ते । अस्यां स्थिती कथनमिदमपार्थमेव यत् चक्षुः प्राप्यकारि अस्तीति।यच्चक्षुरक्षराणि प्राप्यापि तानि न प्रकाशयति तच्चक्षुरन्यद् वस्तु प्राप्य प्रकाशयिष्यतीति कथनमयुक्तमेवेति अत्रत्यः सारः। अत्रेयमाशंका भवति यत्वस्तुनोऽतिसामीप्यं यदि तद्वस्तुनः प्रत्यक्षस्य बाधकं चेत् तदा समीपस्थो घटोऽपि न दृश्येत चक्षुषा। किन्तु भवत्यत्र तविपरीतम्।तत्र घटस्तु दृश्यते एव।अक्षराण्येव समीपस्थानि कथं न दृश्यन्ते। किमत्र कारणमिति वर्तते जिज्ञासा। अस्य समाधानेऽवगन्तव्यमिदं यत् सूक्ष्मवस्तून्येव समीपस्थानि चेत् न दृश्यन्ते चक्षुषा स्थूलानि घटपटादीनि तु दृश्यन्त एव।तैजसात् चक्षुषो बहिर्गताः तेजोरश्मयो यथा घटं व्याप्नुवन्ति न तथा अक्षराणि।अक्षराणामतिसामीप्यं हि तेजोरश्मिसंयोगस्य प्रतिबन्धकमस्ति।अत एव समीपस्थो दूरस्थो वा घटो दृश्यते चक्षुषा न तु समीपस्थानि अक्षराणि द्रष्टुं शक्यन्ते इति। कस्यापि वस्तुनो दृश्यादृश्यत्वविवेचनमनया रीत्या भवति 'अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थात्। सौक्ष्याद् व्यवधानादभिभवात् समानाभिहाराच्च॥" एतद् श्लोकानुसारं अष्टकारणानि वस्तुप्रत्यक्षस्य बाधकानि भवन्ति। तच्चेत्थम्-अतिदूरता,समीपता,इन्द्रियघातः, मनोऽनवस्थितिः, सूक्ष्मता,व्यवधानं, अभिभवः, समानाभिहारश्च। अक्षर चक्षु से देखे जाते हैं, किन्तु वे ही अक्षर चक्षु से देखे जाते हैं जो चक्षु से दूर होते हैं। जो अक्षर चक्षु के अति निकट होते हैं वे चक्षु से नहीं देखे जाते। चक्षु और विषय की अतिसमीपता उस विषय की प्रत्यक्ष की बाधिका होती है। जो वस्तु जिस कार्य का प्रतिबन्धक होती है वह कार्य वहां नहीं होता। अत्यन्त सामीप्य १.सांख्यकारिका-७। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy