________________
. जैनन्यायपञ्चाशत लोके इन्द्रियेण जायते प्रत्यक्षमिति व्यवहारं दृष्ट्वाऽत्रापि इन्द्रियमनोनिमित्तकस्ट ज्ञानस्य (मतिज्ञानस्य) प्रत्यक्षे गणना भवति। नैयायिका अपि मतमिद समर्थयन्ति–'इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्' इत्युक्त्या। ___अस्य मतिज्ञानस्य चत्वारो भेदा भवन्ति-अवग्रह ईहा अवायो धारणा चेति। तेषां च तात्पर्यमित्थम्-अवग्रहस्यार्थोऽस्ति प्रथमं ज्ञानम्। इन्द्रियस्य विषयेण सहसम्बन्धे जाते ‘इदमस्ति किञ्चिद्' इति प्रकारताविशेष्यताशून्य सत्तामात्रबोधकं प्रथमं ज्ञानं भवति। प्रमाता अत्रेदं निश्चेतुं न शक्नोति यत्किमिदमिति। अत्र विशेषधर्मस्य ज्ञानं नैव भवति। न्यायदर्शने ज्ञानमिदं निर्विकल्पकं ज्ञानमित्युच्यते।
एतदनन्तरम् ईहानामकं ज्ञानं भवति। अस्मिन् ज्ञाने वितर्को भवति।स च संशयात्मकः। गौरयं गवयो वेति रूपेण भवति संशयोऽत्र। संशयः केवलं विकल्पं प्रस्तौति नतु निर्णयं विधत्तेऽयम्। निर्णयात्मकत्वाभावादेव संशयात्मकं ईहाज्ञानं न प्रमाणम्।
ईहायां प्रस्तुते विकल्पे अवायो निर्णयति गौरेवायं न गवयः। ईहायां प्रस्तुतानां विशेषधर्माणां नाम जात्यादीनां विधाय पर्यालोचनं निर्णयो भवति गौरेवायमिति।
एतदनन्तरम् अवाये निर्णीतोऽर्थो धारणायां तिष्ठति किञ्चित् कालपर्यन्तम्। ततो विषयान्तरिते सति विषयोऽसौ स्वसंस्कारं तत्र संस्थाप्य गच्छति। अयमेव क्रमोऽवग्रहादीनाम्। - इदं चतुर्विधं मतिज्ञानमष्टाविंशतिप्रकारकं भवति। तच्चेत्थम्ज्ञानेन्द्रियाणि पञ्च। एकं च मनः। एतेषां मेलनेन षड्भवन्ति इन्द्रियाणि। अपरस्यां दिशि अवग्रहस्य व्यञ्जनावग्रहस्तथार्थावग्रहश्चेति द्वौ भेदौ तथा ईहा अवायो धारणा चेति मिलित्वा पञ्च भवन्ति ज्ञानानि।ततो मनःसहितैः षडिन्द्रियैः सह पञ्चज्ञानानां गुणने कृते त्रिंशद् ज्ञानानि भवन्ति। षण्णामिन्द्रियाणां मध्ये चक्षुषो मनसश्च व्यञ्जनाव-ग्रहो नैव भवति। अतो त्रिंशभेदे द्वयोः न्यूनतया अष्टाविंशतिभेदा भवन्ति मतिज्ञानस्य।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org