________________
14
जैनन्यायपञ्चाशती साधकतमत्वाभावात् स्वार्थव्यवसितौ ननु। सन्निकर्षस्य प्रामाण्यं स्वीक्रियते न धीमता॥८॥ सन्निकर्ष स्व और पर के निश्चय में साधकतम नहीं है, इसलिये बुद्धिमान् व्यक्ति उसका प्रामाण्य स्वीकार नहीं करता। न्यायप्रकाशिका ... प्रमेयसिद्धिप्तिः प्रमाणादेव भवतीति दार्शनिकः सर्वमान्यः सिद्धान्तः। अत एव किं प्रमाणम्? किं स्वरूपं वा तदिति विषयो दर्शनशास्त्रे प्रामुख्यं गतः। कृतो विचारोऽत्र दार्शनिकैः। तत्र न्यायदर्शनानुसारं प्रमाकरणं प्रमाणमिति कृतं लक्षणं प्रमाणस्य। प्रमा च यथार्थज्ञानम्। यद् वस्तु यथास्ति तस्य तादृशं ज्ञानमेव यथार्थज्ञानम्। घटत्ववति घटे घटत्व-प्रकारकं घटविशेष्यकम् 'अयं घटः' इत्याकारकं ज्ञानमेव यथार्थज्ञानम्। एतादृशस्य यथार्थज्ञानस्य यत् करणं भवति तदेव प्रमाणम्।
बहुषु वस्तुषु सत्स्वपि प्रमा नोत्पद्यते, किन्तु यदा इन्द्रियसन्निकर्षो भवति पदाथैः सह तदा प्रमोत्पद्यते। तस्मात् संयोगांदिरिन्द्रियसनिकर्ष एव ज्ञानं प्रति कारणम्। स एव च प्रमात्रादिभ्योऽतिशयितः। तस्मात् अतिशयोपयोगित्वात् इन्द्रियसन्निकर्ष एव प्रमाणम्। स च सन्निकर्षः प्रत्यक्षज्ञान-हेतुः षड्विधोऽस्ति। स चेत्थम्-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति।
तत्र चक्षुषा घटप्रत्यक्षे संयोगः सन्निकर्षः। चक्षुषो घटस्य च द्रव्यत्वात् द्वयोः द्रव्ययोश्च संयोगस्यैवाभिमतत्वात्। घटरूपप्रत्यक्षे च संयुक्तसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे समवायेन रूपस्य वर्तनात्। ___ रूपनिष्ठरूपत्वजातेः प्रत्यक्षे संयुक्तसमवेत-समवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं तिष्ठति समवायेन, तत्र रूपे रूपत्वंसमवेतमिति संघटितो भवत्यत्र संयुक्तसमवेतसमवायः सन्निकर्षः।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। श्रोत्रविवरस्य आकाशत्वं शब्दस्य च आकाशगुणत्वं गुणगुणिनोश्च समवायस्य प्रसिद्धत्वात्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org