________________
जैनन्यायपञ्चाशती
साधनमिति भावः । अतः आचार्यः प्राह - ' तथैव तस्य विज्ञाने सापेक्षं न चिदन्तरम् ।'
ज्ञानं द्विविधं भवति - यथार्थम् अयथार्थञ्च । तत्र यथार्थज्ञानमेव प्रमाणम् । तस्य प्रामाण्यविषये दार्शनिकानां वर्तते मतभेदः । तत्र न्यायदर्शनानुसारं ज्ञानं स्वप्रामाण्यं स्यात् अप्रामाण्यं वा स्यात् एतदुभयं तावत् परत एव भवति । अस्मिन् दर्शने ज्ञानं व्यवसायशब्देनाप्युच्यते । तस्य ग्रहणम् अनुव्यवसायेन भवति, किन्तु तस्य प्रामाण्यं तु सफल प्रवृत्तिजनकानुमानेनैव भवति न तु स्वतो भवति, अन्यथा यदि ज्ञानं स्वतः प्रमाणं स्यात् तदा मम ज्ञानं युक्तमयुक्तं वेति संशयो न स्यात् । तदुक्तम्- 'प्रमात्वं न स्वतो ग्राह्यं संशयानुपत्तितः '।"
एतद्विपरीतं मीमांसकाः वदन्ति यत् ज्ञानस्य प्रामाण्यं स्वत एव अप्रामाण्यं तु परतो भवति । किं नाम स्वतः प्रामाण्यमिति जिज्ञासायामिदं तन्मतं यत् 'ज्ञानग्राहकसामग्रीग्राह्यत्वमेव स्वतः प्रामाण्यम्' । अस्मिन् विषये त्रयाणां मीमांसकानामैकमत्यमस्ति । प्रभाकरमते- ज्ञानं स्वप्रकाशं भवति । तच्च प्रकाशमानमेव उत्पद्यते। कुमारिलंभट्टमते- ज्ञानेन ज्ञातता उत्पद्यते । तयैव तदीयं प्रामाण्यमपि जायते । मुरारिमिश्रानुसारं ज्ञानेन अनुव्यवसायो जायते । तेनैव ज्ञानस्य तथा तत्प्रामाण्यस्य च ग्रहणं भवति । तदुक्तम्' -
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्त्तुमन्येन शक्यते ॥
सर्वप्रमाणानां प्रामाण्यं स्वत एव भवति । यदि स्वस्मिन् शक्तिर्नास्ति कथमसौ अन्येन संपादिता भवेत् ?
सांख्यदर्शने तु ज्ञानस्य प्रामाण्यमप्रामाण्यं तु उभयमप्येतत् स्वत एव भवति। अन्यथा ज्ञानं प्रमापयितुं ज्ञानान्तरस्य अपेक्षायामनवस्थादोषः स्यात्।
१. न्यायसिद्धान्तमुक्तावली : श्लोक : १३६ ।
२. तर्कभाषा : पृ. १८७ ।
३. मीमांसाश्लोकवार्तिकम् : पृ. ४५, श्लोक : ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org