________________
जैनन्यायपञ्चाशती
83 होती ही नहीं है। निष्कर्षरूप में यही कहा जा सकता है कि पदार्थ स्वतः ही सामान्यविशेषात्मक होते हैं।
(३८) यः खल्वेकः सोऽनेकोऽपि, यो नित्यः सोऽनित्योऽपीति प्रस्तुतकारिकया अस्य प्रस्तुतीकरणं क्रियते
जो एक है वह अनेक भी है, जो नित्य है वह अनित्य भी है-प्रस्तुत कारिका द्वारा इसका प्रस्तुतीकरण किया जा रहा है- .
एकोऽनेकोऽनेक एको नित्योऽनित्यस्तथैव च।
कथञ्चिदिति भावानां स्थिति कान्ततः क्वचित्॥ ३८॥ __जो द्रव्य एक है, वह कथंचित् अनेक है। जो द्रव्य अनेक है, वह कथंचित् एक है। जो द्रव्य नित्य है, वह कथंचित् अनित्य है। जो द्रव्य अनित्य है, वह कथंचित् नित्य है। एकान्त-दृष्टि से द्रव्य की इस व्यवस्था की संगति नहीं बिठाई जा सकती। न्यायप्रकाशिका
जैनदर्शनमनेकान्तवादिदर्शनमस्ति। तस्य सर्वं चिन्तनं पदार्थविश्लेषणं च सापेक्षतया भवति। एकान्त-वादिदृष्टि न कदापि भवति सत्यग्राहिका। सत्योपलब्धये उभयात्मकदृष्टेरपेक्षा भवति। जैनदर्शने वस्तु ज्ञातुं दृष्टिद्वयं सम्मतम्-द्रव्यदृष्टिः पर्यायदृष्टिश्च।गुणपर्यायाश्रयो हि द्रव्यम्।अनेक पर्यायाणां सम्मेलनेन निर्मीयते किमपि वस्तु। तत्र यदि पर्यायदृष्ट्या दृश्यते वस्तु तदा एकस्मिन्नेव वस्तुनि घटादौ वा अनेकेषां पर्यायाणामवस्थित्या एक एव घटः कथञ्चित् अनेकोप्युच्यते। पर्यायाणामनेकतां वस्तुनि समारोप्यैव कथ्यते यत् वस्तु घटो वा अनेकः। मृत्पिण्डस्य अनेके पर्यायाः घटस्य कारणम्। घटश्च तेषां कार्यम्।कारणधर्माः कार्ये समारोप्यन्ते।अत एव पर्यायगतं नानात्वं घटादौ वस्तुनि समारोप्य क्रियते व्यवहारः यत् अयं घटः कथंचिदेकोऽप्यनेकः। अत्र भवति इयं शंका यत् एक एव घटो यदि अनेको भवति तदा एकेनैव घटेन अनेकेषां घटानां कार्यं कथं न सम्पाद्यताम्? कावश्यकता तत्रानेकघटानाम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org