________________
६२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
अङ्गीकरोमि जडधीरपि संस्तवाय,
भेद - प्रभेदरुचिरं रुचिराङ्गसङ्गी ॥२॥ [ वसन्ततिलका ]
अहं महं प्रौढतमं तमन्वहं निर्माय निर्माय - मनाः सनातनाः आदौ मतिज्ञानभिदा उदाहरे, मोहप्ररोहं निखिलं यथा हरे ||३|| [ उपजातिः ] अवग्रहेहा-व्यवसाय-धारणाः, षोढा भवेयुर्हदयेन्द्रियैस्तथा । चतुर्विधो लोचनमानसे विना, स्याद् व्यञ्जनाऽवग्रह इन्द्रियैः परैः ||४||
मुदा सदाष्टा- द्विमिति स्वभेदमेदस्वलं निश्चलचित्तवृत्तिः । प्राणौमि संसारदवे सदम्भःसमं मतिज्ञानमिदं विदम्भः ||५|| जैनेश्वरस्य न कदाऽपि विनश्वरस्य, सम्यक् श्रुतस्य जगतीतलविश्रुतस्य । एतान् कृतान्तरतमोभरखेदभेदान्, भेदांश्चतुर्दशमुदा समुदाहरामि || ६ || [ वसन्ततिलका ]
गमिकमङ्गनिबद्धमनक्षरश्रुतमनादिसर्पयवसानकम् ।
स्मरत सम्यगसञ्ज्ञिभिदा इमास्तदितरा मिलिताश्च चतुर्दशा ||७|| [द्रुत०] अथाऽवधिज्ञानमविज्ञशेखरः, प्रव्यक्तभक्त्या मुखरीकृतः परम् ।
स्तवे नुवेऽलं किल रूपिभावाऽवभासनाकौशलहेलिलीलम् ॥८॥ [ उप०] अनुगाम्यथ वर्धमानक, प्रतिपाती च तथेतरे त्रयः ।
इति षड्विधमानुमोऽवधिं, विधिना बन्धुरलब्धिसेवधिम् ||९|| [प्रबोधिता] ऋजु-विपुलमतिभ्यां यद्भिदाभ्यामुभाभ्यामखिलमनुजलोके सञ्ज्ञिपञ्चेन्द्रियाणाम् ।
१. अष्टाविंशति इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org