________________
४४. श्रीनेमिनाथस्तोत्रसङ्ग्रहः अम्बिकामूर्तिरम्यं वै, बहुकुण्डविराजितम् । देवैरपि सदा सेव्यं, वन्दे रैवतकाचलम् ॥७॥ अहो ! मे भाग्य-संपत्तिरहो ! मे पुण्यसञ्चयः । पश्यन्तु तज्जना भव्या, यज्जातं नेमिदर्शनम् ॥८॥ रस-द्विकाऽष्ट-सिध्यब्दे, चैत्रमासे सिते दले। . राकायां कर्मवाट्यां च, वन्दितो नेमिनायकः ॥९॥ विदुषो रामचन्द्रस्य विनेयेन हितेच्छुना । आनन्दवल्लभेनासौ, श्रीसङ्घन समं मुदा ॥१०॥
१०) गञ्जेजीममण्डननेमिनाथस्तुतिः गओजीममुखे सदा हितकरे चैत्यालये संस्थितं, सद्दण्डैः कलशैर्गवाक्षकटकैः संशोभितं सर्वदा । शङ्खाङ्केन युतं शिवासुतमहं वन्दे सदा पावनं, श्रीमन्तं जगदुत्तमं यदुपति श्रीनेमिनाथं जिनम् ॥१॥ [शार्दूल०]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org