________________
श्रीनेमिरूपस्तवः • २७ एवं ध्यात्वेव यस्य क्रमकमलयुगं तद्व्यपोहायकम्बुलक्ष्मव्याजेन भेजे स दिशतु भगवान् श्रीशिवासूः सुखानि ।।२३।। [स्रग्धरा] प्रणमदमरनाथस्वर्णकोटिररोचिःशबलिततनुकान्तिर्नेमिदेवः श्रिये वः । सकनकमृगनाभीपत्रभङ्गीसुरङ्गीकृत इव शिवलक्ष्म्याऽऽश्लिष्टसर्वाङ्गयाऽसौ ॥२४।। [मालिनी] भुवनविभुरसौ शिवाख्यलक्ष्मीदिशतु सतां भगवान् शिवाङ्गजन्मा । प्रतिफलति यदीयसंविदन्तः समसमयं सकलः पदार्थसार्थः ॥२५।।
[पुष्पिताग्रा] भक्तिप्रह्वमहेन्द्रपूजितपदाम्भोजः स भोजाङ्गजा, जाग्रन्मानसहंस एवमखिलत्रैलोक्यनाथः स्तुतः । सिद्धानन्तचतुष्टयस्थितिमयः शैवेयदेवः सतां, दत्तां श्रीगुरुसोमसुन्दरकरप्राग्भारगौरं यशः ॥२६॥ [शार्दूल०]
६. प्रतौ 'सखौख्य' पदमस्ति, अत्र 'सुसौख्य' इति वा पदं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org