________________
२२० . श्रीनेमिनाथस्तोत्रसङ्ग्रहः एवं देवनरेन्द्रवन्दितपदो नीतः स्तुतेर्गोचरं, बाह्याभिः किल कल्पनाभिरपि यः प्रव्यक्तभक्तेर्वशात् । .. नित्यं श्रीगुरुसोमसुन्दरपदध्यानैकलीनात्मनां, भूयाद् वाञ्छितसिद्धये स भवतां श्रीवैश्वसेनिर्जिनः ॥२५॥ [शार्दूल०]
३. श्रीपार्श्वनाथफणास्तवः ॥ किर्तिःस्फूर्तिमियत्ति सर्वनिधयः श्रीगेहमध्यासतें, क्रीडामाकलयन्ति ताः करतले चाऽष्टौ महासिद्धयः । यन्नामस्मरणैकतानमनसां पुंसां निरस्तैनसां, स श्रीपार्श्वजिनो धिनोतु भविनो ज्ञानश्रियां दानतः ॥१॥ [शार्दूलविक्री०] सप्तद्वीपसमुद्रमुद्रितमहीपीठप्रतिष्ठान्यमी, जेतुं सप्तमतानि दुर्नयभवान्युत्तम्भिता रेजिरे। यात्रालञ्छनदण्डका इव फणाः सप्तापि यस्य प्रभोः, श्रेयः सम्पदमातनोतु भगवान् श्रीपार्श्वदेवः [स वः] ॥२॥ दुःखौर्वानलतप्तसप्तनरकक्षाराणवान्तः पतज्जीवानामवलम्बहेतव इमे किं सेतवः प्राञ्जलाः । नित्यानन्दमहोमहोदयपुरीसम्प्रापणप्रत्यलाः, श्रीमत्पार्श्वफणा नृणामविपदः पुष्पन्तु सत्सम्पदः ॥३॥ गाम्भीर्यादिगुणैर्जितास्तत इमे सप्तापि रत्नाकरा, यस्य स्नात्रविधित्सयेव युगपत् स्व-स्वप्रवाहैः पृथक् । पुष्पैः संवलितैः फणामणिमिषादीयुः स्फुरद्-भावनाः, स श्रीपार्श्वजिनेश्वर: कलिमलप्रक्षालनायाऽस्तुवः ॥४॥ भृत्यैरस्माभिरेव प्रगुणितमतुलं स्वय॑सौख्यं त्वयाप्तं, तीर्थेश ! त्वं तथैतत् तदुपकृतवतो हन्सि किं नः कृतज्ञ! । कर्माण्यष्टौ शिरोहिस्थितिभुजगमिषाद् यस्य विज्ञप्तिमेवं, कर्तुं साक्षादिवासन् स भवतु भगवान् पार्श्वदेवः श्रिये वः ॥५॥ [स्रग्धरा]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org