________________
२१४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः दूरे प्रेषय नाभिराजतनय ! व्योमेति विज्ञप्तिकां, प्राप्तं कर्तुमिव त्वदन्तिकमिदं दम्भाज्जटानां प्रभो ! ॥६॥ भक्तिव्यक्तिविनम्र[शिर्ष]जनताऽभिष्टार्थकल्पद्रुम !, स्वामिस्तेऽसयुगे सुगेयशितिरूक् नैतज्जटामण्डलम् । किं त्वेतच्चपलस्वभावकमलाबालप्लवङ्गप्रियाबन्धाय प्रबलं त्वया प्रगुणितं प्रोद्दामदामाऽऽयसं ॥७॥ यद् विज्ञाः प्रबलप्रतापविभवश्रीनाभिराजाङ्गज!, . त्वां गन्धद्विपमामनन्तिपुरूषश्रेणीषु तत् साम्प्रतम् । राग-द्वेषगजान् पराभवसि यद् बम्भङ्क्षि मोहद्रुमं, धत्से यन्मदवारि वारितमदोप्युद्यज्जटाव्याजतः ॥८॥ ... सौभाग्येकनिधे निधेहि हृदये स्नेहं चिरस्नेहलस्वान्तां स्वां दयितामिमां त्वमधुना सम्भावयैहि प्रभो ! । इत्याख्याय शिवश्रिया निजगृहे त्वां नेतुमायोजिता, नीलीरागभृतेव रज्जुरपि हि श्यामा जटायाः छलात् ॥९॥ पीयूषद्युतिमण्डले प्रतिकलं पीयूषयूषं पिबन्, देवैस्त्रासित एष लेखभवनादाहुः पलाय्य स्थितः । पातुं वागमृतं त्वदीयवदनासन्ने प्रसन्ने जटाव्याजेन त्रिजगत्यपि त्वदपरो नास्ति शरण्यो यतः ॥१०॥ धर्मायादा भुवनविभुतां देहि तन्नोपि किञ्चिन्, मित्रे शत्रावपि सममना योगिभिर्गीयसे यत् । याञ्चामेवं रचयितुमिदं दम्भतः कुन्तलाल्याः स्थानभ्रष्टं दुरितमिह किं त्वत्समीपे जिनागात् ॥११॥ [मन्दाक्रान्ता] सततं भगवंस्तवांशदेशेन जटानां पटलं विभाति किन्तु । विधृतं तदिदं त्वया तमोऽस्त्रं जगदास्कन्दपरस्मरच्छिदायै ॥१२॥ [मालभारिणी] परममहिमदीव्यन्मातृकाव्यक्तवर्णं, फणियुगलनिषेव्यं व्याजतः केशपाल्याः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org