________________
परिशिष्ट - 'क' १) जिनकीर्तिसूरिविरचिताः पञ्चतीर्थीस्तवाः ॥
१. श्रीऋषभकुन्तलस्तवः ॥ एश्वर्यं सदने सदैव वदने वाचाम्पतिर्देवता, शौर्यं दोगुंगलेऽवलेपरहिता बुद्धिविशुद्धा हृदि । कीर्तिः खेलति विष्टपे च भविनां यस्य प्रसत्तेर्वशात्, श्री नाभेयजिनं प्रणष्टवृजिनं प्रव्यक्तभक्त्या स्तुवे ॥१॥ [शार्दूल०] श्रीब्रह्मोपनिषन्निषण्णधिषणैविज्ञेयसम्यस्थितः, स्वामिन् ! कस्तव वास्तवस्तवमलं कर्तुं भवोन्मानवः ? । त्वामामन्त्र्य पुनः पुनस्तदपि हि स्तोत्रच्छलेनामुना, जिह्वा स्वामधुना पुनामि मलिनामास्तुत्यसङ्कीर्तनात् ॥२॥ मग्नं धर्मरथं युगादिसमये मिथ्यात्वपङ्कोच्चयात्, कृष्ट्वा सर्वसुखावहं यदवहः श्रेयःपुरीप्रापकम् । तेनाऽसौ किणसन्ततिः शितितरा स्कन्धे तवालोक्यतेऽद्याऽपि श्रीवृषभप्रभो ! नवघनश्यामालकव्याजतः ॥३॥ लावण्यातिशयादतीवसुभगां श्री-भारतीदेवते, त्वन्मूर्ति दृढमालिलिङ्गतुरमू अत्यन्तरागान्विते । तेनांसस्थलयोस्तव स्तबकिता लोलालिकालिच्छलात्, कस्तूरीद्रवपत्रभङ्गरचनेवाऽसौ तदङ्गच्युता ॥४॥ श्रीनाभिक्षितिपालंपुत्रं ! भगवन्नैता तवांऽसस्थले, दीव्यन्नीलरूचिछटाः किल जटाः सर्वज्ञचूडामणे ! । किं त्वेताः परमद्धिसिद्धिनगरीमोहार्गलदुर्गमब्रह्मद्वारकपाटसम्पुटतटप्रोद्घाटने कुञ्चिकाः ॥५॥ अत्यन्तं निभृतं भवद्गुणगुणैः सङ्ख्यातिगैः प्रागपि, त्वत्कीर्त्या त्वधुनाऽभवं स्फुटदिवामास्या तदेनां क्वचित् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org