________________
पञ्चवर्गपरिहारश्रीनेमिनाथस्तवः . १९५ शैवेयारं हरि-वरवृषौवासवाहार्यसिंहौ, वारीशं वाससरसिरुहं सेव्ययोः शस्य वस्वोः ॥१५।। [मन्दाक्रान्ता] असाहाय्यः सायं य उषसि सिवव्यूह ! वयसाम्, सुसालं संवासेऽहर-हरि-हसंवेशविरहे । सिषेवे शैवेयं सुरविसरशस्यं सवयसम्, स शुश्रूषे सालं वरवृषरहस्यं-ह्यवससौ ॥१६।। [शिखारिणी] श्रेयोलालसविश्ववीरविलसल्लीलारिशांस्याहवे, हंसेर्यो हरिवंशवर्यसरसश्रीशीर्षहीरो रुषाम् । हंस्येलाविशरारुवाललवलीसर्वस्वसुस्वास हे !, सूयावाहवृहल्लुलाय सहसाशंव्यालहिंसाहरे ! ||१७|| [शार्दूलविक्रिडीतम्] विस्रांहोवारिराशेरविरललहरी व्यासऋष्योर्वशे यः, संसारायासविश्वारुहविलय उरो हव्यवाहो विवाह ।। आवासे वै शिवा। शिवसलिलसर: शोषसूरार्यवर्षा, सारो वावस्य सेरं वरसरसरवः संवरव्रीहि शस्ये ॥१८॥ [स्रग्धरा] इति विगलदवद्यः त्वां जिनेशानुवद्यः, प्रकटितशिवपद्य प्राज्यविभ्राजिविद्य ! । तमसमदयसद्यः पाहि नेमे ! प्रसद्य, प्रचुरमहिमहद्य ! क्लेशराशेस्त्वमद्य ॥१९॥ [मालिनी]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org