________________
१७८ • श्रीनेमिनाथस्तोत्रसंग्रहः चरणचारुरमापरमावधिम्, विधुसुधोज्वलसद्गुणसेवधिम् । जिनमहं यदुवंशवतंसकं, हृदि वहामि महाकरपल्लवम् ॥२॥ लवणिमाललिताङ्गलताजुषो, भगवतश्चरणाम्बुजपूजया । वयमघं दलम समन्ततो, ग्रहमणेः प्रभयेव तमोघनम् ||३|| घनघनाघनमण्डलनिर्मलीकृततमालदलालिकलच्छिविः । शुभगतागुणशालिमतल्लिका, सुमनसे जिनपो मम रोचताम् ॥४॥ चतुरिमैकनिधेर्भवतः पुनः, कटकलङ्ककलापविवज्जितम् । यदुकुलं विमलं शुशुभेऽधिकं, ध्रुवमिदं हि महापुरुषोचितम् ॥५॥ रुचितचन्दनचम्पकमालिकाकरनरामरपूजितपाद ! ते । शरणमस्तु समस्तसुखावहं, पदयुगं भवसंयुगगञ्जनम् ॥६॥ जनमनोनयनामृतसोदरे, दरहरे हरिणा स्वयमाऽऽश्रिते । मम मनो रमतां त्वयि सर्वदाऽप्यलियुवेव सरोरुहिणीरसे ॥७॥ रसिकमागधिकैरिव पण्डितैर्जयजयारवडिण्डिममण्डितैः । नरसुरेन्द्रगणैरविखण्डितं, कृतगुणस्तुतिपाठजया विभो ! ||८|| विभववृद्धि - समृद्धिसमागमः सममभीष्टतमैः सहसङ्गमः । सुगतिलाभसुखं च भवान्तरे, भवति देव ! सतां भवदञ्चिनाम् ॥९॥ चिनु धियं तनु दुर्मतितानवं दिश विवेकगुणेन समं शिवम् । कुरु तथा जिनशासनवासनं, विलयमेति यथा भवसङ्कटम् ॥१०॥ कटरि ! ते मुखसुन्दरिमागुणः कटरि ! ते प्रमदोदयिदायिता । कटरि ! ते परसौख्यविधायिता, मम_हस्तभवान भवो गतिः ॥११॥ गतिरघो न भवे भविता क्वचित्, न च कुकर्मकदाधिविडम्बना । तव जिनेन्द्र ! गुणस्तवकारिणां सुखमयः समयश्च सदा भवेत् ||१२||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org