________________
श्रीनेमिसमस्यास्तोत्रम् . १४१ सच्चेत:कैरवालीवलयविकसनोद्दामधामा सुभाढ्यः, पुण्याब्धिप्रीतिदायी सितरुचिरिव यः स्वीयगोभिस्तमांसि ॥६॥ जीवाहिंसाप्रशंसाशुचिपथगतिभृद्रोहिणीप्राणनाथः, कारुण्यानन्ददायी प्रवरबुधसुतो वन्द्यलोकावतारः । कैवल्योल्लासि-लीला-जलनिधितनयाबान्धवोऽमित्रमित्रं, सान्द्राणि ध्वंसमानः सकलकुवलयोल्लासमुच्चैश्चकार ||७|| दुष्कर्मध्वंसतारानिकरपरिवृतोऽत्यन्तचन्द्रत्वमैतः, संसारसारपाटच्चरपटुगतिहन् मोदयन्नङ्गभाजः । सद्वक्त्रकेन्द्रसंस्थ: किमपि तनुभृतां ध्वन्सयन् निःस्वयोगं, ज्ञानं पुष्पाज्जिनौघः स तपसि भविनां पञ्चमीवासरस्य ||८|| [चतुभि:०] मोहद्रोहप्ररोहप्रलयविधिपराऽपारसंसारमाला- . हालाहेलानुसङ्गप्रदलनकुशलं दुर्लभं दुष्कृतीभिः ।। आस्वाद्याऽवद्यमाद्यगिरिगरिम-रणद्वज्रसङ्घातपातं, पीत्वा नानाविधार्थामृतरसमसमं यान्ति यास्यन्ति जग्मुः ॥९॥ जीवाजीवादितत्वव्यतिकरबहुलान्तद्विषद्वर्गचञ्चत्, सम्पर्कोदर्कदावप्रचयसुदहनाऽनल्पदावाग्निकल्पात् । सम्यक्त्वानन्दिचक्षुःक्षपितखलतमस्तोमसोमानुकाराजीवा यस्मादनेके विधिवदऽमरतां प्राज्यनिर्वाणपुर्याम् ॥१०॥ आदेय-ध्येयं-पेय-प्रचुरतरवरोदारसम्बन्धवीचिव्याकीर्णं जीर्णनिम्नं किमपि शुचितरं प्रोल्लसन्तं च सन्तम् । नाना षष्टाऽष्टमादिप्रगुणतरतपोजातिसोपानमार्ग, यात्वा देवाधिदेवाऽऽगमद-शमसुधाकुण्डमानन्दहेतुः ॥११॥ श्रीमच्छ्रीवीतरागाऽमलचलनसरोजद्वयाशक्तचेतोवृत्तीनां सन्मतीनां मुनिवरनिवहैरादृतेऽर्हन्मुखोत्थे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org