SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ . ८२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः । वाणि ! ब्रह्ममह:समुद्भवतया ब्राह्मीति यत् कीर्त्यसे, तेन त्वं गुरुपक्षपातरभसान्मातविहायापरम् । आजन्मप्रतिपालिताऽमलतमब्रह्मव्रतस्य प्रभोः, श्रीमन्नेमिजिनेशितुः स्तुतिपथे पान्थश्रियं संश्रयाः ॥२॥ कस्तूरीतिलकत्यलीकफलके नीलोत्पलोत्तंसति, श्रोत्रोत्सङ्गयुगे कुरङ्गति कपोलेन्दुद्वये यद्द्युतिः । श्रेयः कम-विनम्र-रम-सुमनः सीमन्तिनीसंहतेः, श्रीशैवेयजिनः स नः प्रथयतां पुण्यास्पदं सम्पदाम् ॥३॥ प्रीतिं पल्लवयन्तु वो यदुपतेर्देवस्य देहधुतो, भृङ्गाभाः शशिकुन्दसुन्दररदज्योतिश्छटालङ्कृताः । याः सम्मोहपराजयैकपिशुनप्रोत्कीर्णवर्णस्फुरद्दूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे ॥४॥ श्रेयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो, यत्पादाब्जपवित्रमौलिरसमश्रीरुज्जयन्तोप्ययम् । धत्ते मूजि निजप्रभुप्रसृमरोद्दामप्रभामण्डले, विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्वलाम् ।।५।। नेत्रं वक्त्रविलोकनाय रसना स्तोत्राय चे[त]श्चिरं, सायुज्यायऽतव प्रणामविधये मूर्द्धा मुहुर्धावति । एभिः स्वावयवैः परस्परमिति स्पर्धिष्णुभिर्वद्धिता, क्लान्तिर्मेवपुषस्तथाप्ययमभूदात्मा कृतार्थः प्रभो ! ||६|| नने मूर्द्धनि वीक्षितुं तव मुखं नेत्रोत्पले ताम्यतस्तद्रुष्टुं स्फुटमुन्नतेः पुनरिदं भालं च नाऽलं नतौ । १. प्रतौ 'संश्रयम्' इति पाठः । २. अत्र 'कपो-लेन्दु०' इति पदे यतिभङ्गः अस्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy