________________
आगम
(३० - वृ)
प्रत
सूत्रांक ||१२६ ||
दीप
अनुक्रम [१२६]
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||१२६ ||
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [ ३० - वृ] प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
याभिस्ताः पटूकायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्धं वा ख्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादौ प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थे, मुखन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां 'वाहिंती'ति व्यापारयन्तीत्यर्थः, संस्तवो द्विधा गुणसम्बन्धिसंस्तवभेदात्, एकैको द्विधा पूर्वपश्चाद्भावित्वात्, तत्र दानात्पूर्वं पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वः श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपव्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करंतीय'त्ति कुर्वन्त्यस्ताः साध्थ्यो न भवन्तीति ॥ १२६ ॥
समा सीसपडिच्छीणं, चोभणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपरिसाणुगा ॥ १२७ ॥ समा सी० 'समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् 'सीस'त्ति स्वशिष्याः - स्वसङ्घाटिका इत्यर्थः प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासु'त्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' सर्वथाऽऽलस्यरहिताः, गुणाः - ज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्त्यादिगुणयुक्तत्वात् परिषत् - परिवाररूपा तयाऽनुगताः -सदासंयुक्ताः, एवंविधो गणः- साध्वीपरिवाररूपो विद्यते यासां ता गणिन्यो| मुख्यसाध्थ्यो भवन्तीति ॥ १२७ ॥
संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तों य, संगहे अविसारया ॥ १२८ ॥
~78~
-
आर्याधि
कारः
गा. १२७
२८
१०
५
१४