________________
आगम
(३० - वृ)
प्रत
सूत्रांक ||११९||
दीप
अनुक्रम
[११९]
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||११९||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३०-वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
विंटालियाणि पतंजति गिलाण सेहीण णेय ते पंति । अणगाढे आगाढं करंति आगाढि अणगाढं ॥ ११९ ॥ 'विटलिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुञ्जन्ति प्ररूपयन्तीत्यर्थः 'ग्लानिकानां' रोगिणीनां 'सेहीण' त्ति नवदीक्षितसाध्वीनां 'नेय तप्पंति'त्ति औषधभेषजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्तीत्यर्थः । तथा आगाढम् अवश्यकर्त्तव्यं सर्पभक्षितविषमूर्च्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढं तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः तथा 'आगाढे' पूर्ववर्णितस्वरूपे कार्ये अनागाढं कार्यं कुर्वन्ति, गो०, यद्वा 'अणगाढे'त्ति आचाराङ्गादिअनागाढयोगानुष्ठाने 'आगाढं'ति भगवतीप्रमुखमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ ११९ ॥ तथा
अजयणाए पकुति, पाहुणगाण अवच्छला। चित्तलिआणि अ सेवंति, चित्ता रयहरणे तहा ॥ १२० ॥ अजय० ॥ 'अयतनया' जीवयतनां विनेत्यर्थः 'पकुर्वति'त्ति प्रकर्षेण-मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनप्रामानुग्राम परिभ्रमणवसतिप्रमा जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति यद्वा न विद्यते यतना - आचरणेनाथ षट्कायपरिपालना यत्र सा अयतना-केवलद्रव्यलिङ्गधारणा तथा प्रकुर्वन्ति जठरपूरणार्थ रामाद्यावर्जनादिकमिति, तथा 'प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल 'त्ति निर्दोपभव्यान्नपानादिना बहुमानपूर्वकं भक्तिं न कुर्वन्तीत्यर्थः, तथा 'चित्तलिआणित्ति चित्रितानि - नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चडकचीतलिकापाची कासारपासकादीनि 'सेवन्ते' स्वयं प्रवर्त्तयन्ती
~74~
वेण्टलकादिवर्जनं अयतनावात्सल्या
दिगा. ११९-२०
१०
१४