________________
आगम
(२८-वृ)
प्रत
सूत्रांक
[१६]
||५६
-८२||
दीप
अनुक्रम
[७४
-१०२]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णिः)
मूलं [१६... ] / गाथा ||५६-८२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
तं वै. प्र.
॥ ३७ ॥
Jass Education
वामपार्श्व १ दक्षिणपार्श्व २ च तत्र - तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तदक्षिणपार्श्व तद्दुःखपरिणामं भवति । तथा 'आउसो !' हे आयुष्मन् ! अस्मिन् शरीरे षष्टिः सन्धिशतं ज्ञातव्यं तत्र सन्धयः-अङ्गु|| स्याद्यस्थिखण्ड मेलापकस्थानानि, 'सत्तत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणि - शङ्खाणिकावियरकादीनि 'तिनि०' त्रीण्य स्थिदामशतानि - हड्डमालाशतानि भवन्ति, 'नव हारुसयाई'ति स्नायूनां - अस्थिबन्धनशिराणां नव शतानि, 'सत्त०' सप्त शिराशतानि स्नसाशतानि पञ्च पेसीशतानि, 'नव घ०' नव धमन्यो- रसवहनाढ्यः 'नव०' नवनवतिः | रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिर्लक्षा इति, विना | केशश्मश्रुभिः, केशश्मश्रुभिः सह पुनः सार्धास्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीरे इति ॥ अथ पूर्वोक्तानि शिरा| सप्तशतानि कथं भवन्तीति सूत्रकार एवाह - 'आउसो ०' हे आयुष्मन् ! अस्मिन् शरीरे 'सट्ठि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां स्त्रसानां सप्त शतानि भवन्ति, तत्र पष्ठयधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुप घातेन - अनुग्रहेण चक्षुः १ श्रोत्ररम्राणरजिह्वा४वलं भवति, यासां 'से' तस्योपघातेन विघातेन चक्षुः श्रोत्रघाणजिह्वाबलमुपहन्यते, तथा 'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे पष्ट्यधिकं शतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः अधोगामिनीनां पादतले उपगतानां प्राप्तानां भवति, यासां निरुपघातेन जङ्घावलं भवति, तासां चैव 'से' तस्य जीवस्योपघातेन - विकारप्राप्तेन शीर्षवेदना सर्वमस्तकपीडा अर्धशीर्षवेदना मस्तकशूलं च भवति,
Fur Prate & Personal Use Only
~76~
पृष्ठकरण ड कादिगणना सू. १६
॥ ३७ ॥