________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
---------- मूलं [१४]/गाथा ||४९...|| --------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
[१४]
||४९..||
वदनस्यावयवी येषां ते तथा, अचिरोद्गतः समग्रः-सम्पूर्णः सुस्निग्धः चन्द्रः-शशी तस्यार्द्धवत् संस्थितं-संस्थानं यस्य । ललाटस्य तत्तथा तदेवंविधं 'निडाल'त्ति ललाट-भालं येषां ते अचिरोद्गतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उड-13 पतिरिव-चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोह
मुद्गरस्तद्वन्निचितं-निविडं यद्वा घन-अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं-महालक्षणं कूटागारनिर्भ-सशिसाखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः-शिरोऽयं येषां ते धननिचितसुबद्धलक्षणोन्नत-2 |कूटागारनिभनिरुपमपिण्डिकाप्रशिरसः, हुतबहेन अग्निना निर्मातं धौतं तप्तं च यत्तपनीयं-रक्तवर्णसुवर्णं तद्वत् 'केसंत'त्ति मध्यकेशाः केशभूमिः-मस्तकत्वम् येषां ते हुतवहनिर्मातधौततप्ततपनीयकेशान्तकेशभूमयः, शाल्म-*
ली-वृक्षविशेषः स च प्रतीत एव तस्य बोर्ड-फलं तद्वत् छोटिता अपि घना निचिता-अतिशयेन निचिताः शाल्म | ट्रालीबोण्डपननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा ||स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः-अकर्कशाः विशदा-14
निर्मलाः सूक्ष्माः श्लक्ष्णाः लक्षणा-लक्षणवन्तः प्रशस्ताः-प्रशंसाऽऽस्पदीभूताः सुगन्धयः-परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको-रत्नविशेषः भृङ्गः-चतुरिन्द्रियपशिविशेषः नीलो-मरकतमणिः कजलं प्रतीतं प्रहृष्ट:-प्रमुदितो यो भ्रमरगणः प्रहष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धा:-कालकान्तयः भुजमोचकभृङ्गनीलकजलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बा:-निकुरम्बीभूताः सन्तः निचिताः।
दीप अनुक्रम
[६४]]
~ 49~