________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
-------- मूलं [११]/गाथा ||३१-४१|| ---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-व), प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
-४१||
SACASSADOSANSACSC
हापनी ६, प्रपञ्चयति-विस्तारयति खेलकासादि इति प्रपञ्चा ७, प्राग्भारं-ईषदवनतमुच्यते तदिव गात्रं यस्यां सा है प्रागभारा ८, मोचनं-मुक जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुख-आभिमुख्यं यस्यां सा मुन्मुखी ९, स्वापयति-निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति ॥१॥ अथ सूत्रेणैव दश दशा दर्शनन्नाह'-'जायमि' श्लोकः, जातमात्रस्य जन्तोः-जीवस्य या सा प्रथमिका दशा-दशवर्षप्रमाणावस्था 'तत्थति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति-नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः-जातिस्मरणादिज्ञानविकला इति ॥१॥ 'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्तिनो जीवस्य कामौ च-शब्दरूपे भोगाश्च-गन्धरसस्पर्शाः कामभोगास्तेषु तीव्रा-प्रबला रतिः-मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ॥२॥ 'तइयं च' तृतीयां दशां प्राप्तः पञ्चकामगुणे-शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थों भवति यदि 'से' तस्य जीवस्य अस्तीति-सत्तारूपतया वर्तते गृहे-स्वावासे 'धुवेति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति शेषः ॥३॥'चउ०' चतुर्थी बलानाम्नी दशा वर्तते यां बलानाम्नी दशामाश्रितो नरः समर्थों भवति बलं स्ववीये | द्रष्टुं ( दर्शयितुं ) फलिहमल्लवत् , यदि भवेत् निरुपद्रवो-रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं या-| तीति ॥४॥ 'पंचमी उ' पञ्चमी दशां प्राप्तः आनुपूा-परिपाव्या यो नरःस समर्थो भवति अर्थ विचिन्तयितुं-द्रव्यचिन्तां |* कर्तुं च पुनः कुटुम्ब प्रति अभिगच्छति-कुटुंबचिन्तायां प्रवर्त्तते इत्यर्थः ॥५॥ 'छट्ठी उ' षष्ठी हापनीनाम्नी दशा वर्तते, 18
दीप अनुक्रम [४३-५४]
~35~