________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
-------- मूलं [१९...]/गाथा ||१३७-१३९|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत सूत्रांक [१९..]
||१३७-१३९||
CASSAMACAAAAAAAEXX
'आहारो' अत्र-प्रकीर्णके जीवानां गर्भे आहारस्वरूपं १ गर्भे उच्छासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे है शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्र ८ चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणित-सङ्ख्या प्रमाणतो निरूपितं. कैः?-गणितप्रधानः-तीर्थकरगणधरादिभिः ॥१६॥ 'एयं सोउं' एतत्पूर्वोक्तं श्रुत्वा-आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा, किंभूतं ?-महान अर्थो-ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत-वाञ्छत, किंभूतं ?-'सम्मत्त'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी ॥ १७ ॥ 'एयं स०' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं 'तह घत्तह'त्ति तथा यतध्वं-तथा यत्नं कुरुतेत्यर्थः, यद्वा तथा खेटयत 'काउ' कृत्वा-विधाय तपःसंयमादिकमिति शेषः, 'जे'इति पादपूरणे, यथा मुञ्चत, केभ्यः? सर्वदुःखेभ्यः, बलसारराजर्पिवदिति ॥ १८ ॥ इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां
घनभावधनभव्यशिलीमुखसेवितक्रमणविसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुणसौभाग्यगणिप्राप्ततन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरिः समर्थिता । अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्के परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् ।
इति तन्दुलवेयालियं विवृत्तितः समाप्तम् ।
दीप अनुक्रम [१५९-१६१]
मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र २८-वृ)
तन्दुलवैचारिक” परिसमाप्त:
~115~