________________
आगम
(२४-वृ)
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
------------ मूलं ||४१-४८|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
प्रत सूत्रांक
||४१
-४८||
चतु:शरणे
रिणाम प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं-पात्रेण-ज्ञातिकुलसौभा-8 जिनधर्म
ग्यादिगुणयुक्तेन तथा अपात्रेणापि-गुणवियुक्तेन द्रारिद्रयाद्युपहतेनापि प्राप्तानि-लब्धानि येन कारणेन नरसुरसुखानि- स्य शरणं ॥७१॥
मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणैव नरसुख-विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्त, गा. ४१अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्तिप्रवजितसम्प्रतिराजजीवद्रमकेगेव, पात्रेण सुरसुखं वसुदेवपूर्वभवन- ४८ दिषेणेनेव प्राप्त, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुख-शिवशर्म पुन: पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनवेति शेषः, नान्यथेति, स धर्मों मम शरणं भवतु ॥४३॥ निर्दलितानि-विदारितानि तत्कर्तृजनेभ्यः कलुषाणि-मलिनानि कर्माणि येन धर्मेण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा, यत एवंविधोऽत एव खलीकृतो-वैरिवन्नि टितो निःसारितो वा अधर्मः
कुधम्मों वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स तथा, तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मिKलादीनामिव परिणामे परिपाकप्राप्ती भवान्तरेऽपि दामन्नकादीनामिव रम्यो-मनोज्ञः, मिथ्यादृष्टिधर्मस्तु नैवंविधा, त
स्यारम्भेऽपि पश्चाग्नितपःप्रभृत्यादेमहाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्वाद्दुर्गतिमूलत्वेन चासुन्दरत्वात् , | विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामे शनै शनैः इहलोके परलोके च कटुविपाकत्वाच, जिनधर्मस्त्वादी परिणामे- ॥ ७१ ॥ लपि च रम्य एव, स एवंविधो धर्मो मे शरणं भवतु ॥४४॥ कालत्रयेऽपि-अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं |
दीप अनुक्रम [४१-४८]
Jinnitution
~ 32 ~