________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [११] / गाथा ||४...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५१]
दीप अनुक्रम
लयद्येवं प्रकारान्तरत्वमसिहं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तखात्, नैतदेवं, प्राग सचित्तद्रव्यस्कन्धाधिकारात्
तथाऽसम्भविनोऽपि वुद्ध्या निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्लस्कन्धवेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । यद्येवं तर्हि हयादिस्कन्धस्य कृत्लत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं, यतोऽसवयेयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षणः समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्घयेयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद्जादिस्कन्धस्य बृहत्तरत्वमसिद्ध, यदि हि जीवप्रदेशपुगलसमुदायः सामस्त्येन वढेत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुगलसमुदायस्य काहीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्लस्कन्धाः । अन्ये तु पूर्व सचित्तस्कन्धविचारे
जीवतदधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धोऽत्र तु शरीरात् बुद्ध्या पृथक्कृत्य जीव एव केवलः कृत्ल-] स्कन्ध इति व्यत्ययं व्याचक्षते, अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन ॥ ५१ ॥ से तमित्यादि निगमनम् । अथाकृनस्कन्धनिरूपणार्थमाह
से किं तं अकसिणखंधे ?, २ सो चेव दुपएसियाइखंधे जाव अणंतपएसिए खंधे, से तं अकसिणखंधे (सू० ५२)
[१७]
444
~84~