________________
आगम
(४५)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[२१]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [२०] / गाथा ||१...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ २५ ॥
तदुक्तम् — “गावीहिं समं निग्गमपवेसठाणासणाह पकरंति । भुंजंति जहा गावी तिरिक्खवासं विभावंता ॥ १ ॥” गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वचः - "गृहाश्रमसमो धर्मो न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीयाः पाषण्डमाश्रिताः ॥ १ ॥” इति । याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति (ये) ते धर्मचिन्तकाः, देवताक्षितीशमा तापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा वैनयिकाः पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः सर्वपाषण्डिभिः सह विरुद्धचारित्वाद्, अत्राऽऽह - ननु यद्येते पुण्यायनभ्युपगमपराः कथं तषां वक्ष्यमाणमिन्द्राद्युपलेपनं संभवति ?, पुण्यादिनिमित्तमेव तस्य सम्भवात्, सत्यं, किन्तु जीवि कादिहेतोस्तेषामपि तत्संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थंकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्व वृद्धा:-तापसाः, श्रावका ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावाद्, अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां द्वन्द्वसमासः, प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः, पाषण्डं वतं तत्र तिष्ठन्तीति पापण्डस्था', 'कलं पाउप्पभाषाएं' इत्यादि, पूर्ववद् यावन्तेजसा ज्वलतीति । 'इंदस्स वे'त्यादि, तत्रेन्द्रः प्रतीतः, स्कन्दः- कार्तिकेयः, रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव व्यन्तरविशेषो वा वैश्रवणो-यक्षनायकः, देवः सामान्यः, नागो-भवनपतिविशेषः,
१ गोभिः समं निर्गमप्रवेशस्थानासनादि प्रकुर्वन्ति । भुजते यथा गायः तिर्यग्वासं विभावयन्तः ॥ १ ॥ २ प्रपालयन्ति
For P&P Cy
~ 53~
वृत्तिः
अनुयो० अधि०
॥ २५ ॥