________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
मूलं [१५६] / गाथा ||१३६-१४१||
(४५)
प्रत
सूत्रांक
अनुयो मलधारीया
[१५६]
॥२६६॥
गाथा:
स्तकाद्यारुढश्चेष्टत इति घट इति, अत्र तदैवासी घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान्ना- वृत्तिः न्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन उपक्रमे निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन ववाचकत्वं निवर्त्यत इति भावः, इति गाथार्थः ॥ उक्ता नयाधिक मूलनया, एषां चोत्तरोत्तरभेदप्रभेदा आवश्यकादिभ्योऽवसेयाः। एते च सावधारणाः सन्तो दुर्नया:, अवधारणविरहितास्तु सुनयाः, सर्चश्व सुनौमीलितैः स्याद्वाद इत्यलं बहुभाषितया ॥ अत्राह कश्चित्-ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनं । पुनरप्याहनन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा?, यद्याद्या पक्षः स न युक्तः, प्रतिसूत्रं नयविचारस्य 'न नया समोयरंति इहमित्यनेन निषिद्धत्वादू, अथापरः पक्षः सोऽपि न युक्तः, समस्ताध्ययन-IA विषयस्य नयविचारस्य प्रागुपोद्घातनियुक्ती 'नए समोयारणाणुमए' इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अनोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते, तत्राविप्रतिपत्तिरेव, किंच-'आसज्ज उ सोयारं नए नयविसारओ बूया' इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यते-स-1 मस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घाते'त्यादि, तत्समयानभिज्ञस्यैव वचनं, यस्मादिदमेव चतुर्थानु-18॥२६॥
साथ तु श्रोतारं नवान् नाविशारदो ब्रूयात् ।
||१-६||
दीप अनुक्रम
[३४३
-३५०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~535~