________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
..... मूलं [१५४] / गाथा ||१२५-१३२||
प्रत
सूत्रांक
[१५४]
गाथा: ||--||
निष्पकम्पत्वात् , ज्वलनसमः तपस्तेजोमयत्वात् , तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद ज्ञानादिरत्नाकरत्वात् खमर्यादानतिक्रमाच, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमा संसारभयोद्विग्नत्वात् , धरणिसमः सर्वखेदसहिष्णुत्वात् , जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाध्यामिव तदृवृत्तः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिवद्धत्वात् , स एवंभूतः श्रमणो भवतीति गाधार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-तो समणों'गाहा, व्याख्या-ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, "भावन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिहान्येव श्रमणगुणत्वेन दर्शयति-खजने च-पुत्रादिके जने च-सामान्ये समो-निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ॥ इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनवाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्बतोरभेदो। पचारादिति भावः ॥ नामनिरूपन्नो निक्षेपः समाप्तः ॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह
मास्त्रीदं प्र. २ गुणरत्मपरिपूर्णत्वाद् ज्ञानादिगुणैरगायत्वादा स.प्र.३ संसार प्रति नियोद्विमत्वात् प्र. ४ सर्वसहत्वात् प्र.५ निष्पकत्वात् पङ्कजलस्थानीयकामभौगोपरिवृत्तरित्यर्थः प्र. ६ तमोविघातकत्वात् प्र.
दीप अनुक्रम [३२५-३३६]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~516~