________________
आगम
(४५)
प्रत
सूत्रांक
[१५४ ]
गाथा:
||--||
दीप
अनुक्रम [ ३२५
-३३६]
अनुयो०
मलधारीया ।। २५६ ॥
Ja Educan
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [ १५४ ] / गाथा || १२५-१३२ ||
सन्निहित आत्मा सर्वकालं व्यापारात् क ? - संयमे - मूलगुणरूपे नियमे उत्तरगुणसमूहात्मके तपसि अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतत्केवलिभाषितमिति श्लोकार्थः ॥ 'जो समो' इत्यादि, यः समः - सर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु' सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एवं साधुः समणो भण्यते इति भावं दर्शयन्नाह - 'जह मम' गाहा, व्याख्या- यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञाखा' चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयं नाप्यन्यैर्घातयति, चशब्दात् प्रतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह - 'णत्थि य से' गाहा, व्याख्या - नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वपि जीवेषु सममनस्त्वाद्, अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः ॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि | तन्निरूपणार्थमाह- 'उरग' गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरग:सर्पस्तत्समः परकृताश्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्ग
वृत्तिः उपक्रमे नामनि०
~ 515 ~
॥ २५६ ॥
For & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः