________________
आगम
(४५)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[३१८]
अनुयो०
मलधारीया
॥ २४५ ॥
Jam Education
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१५२] / गाथा ||१२३-||
श्रमिथ्यादर्शन मितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपे क्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः स्यात्पदलाञ्छनसापेक्षतायां तु स्वस्मयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना - "नयास्तव स्यात्पदलाञ्छिता ईमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥" इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समाप्ता ॥ १५१ ॥ साम्प्रतमर्थाधिकारावसरः
से किं तं अत्थाहिगारे ?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा- सावज्जजोगविरई उत्तिण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चैव ॥ १ ॥ से तं अत्थाहिगारे ( सू० १५२ )
यो यस्य सामायिकाद्यध्ययन स्यात्मीयोऽर्थस्तद्स्कीर्तनमर्थाधिकारस्य विषयः, तच 'सावज्जजोगविरई'त्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः - अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति ॥ १५२ ॥ अथ समवतारं निरूपयितुमाह
१ विभो प्र. २ विद्धा पा०.
वृति: उपक्रमे अर्थाधि०
For & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
~ 493~
॥ २४५ ॥
beary dig