________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [१९] / गाथा ||१...|| ............... मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१९]
दीप अनुक्रम [२०]
रिसे कमलागरनलिणिसंडबोहए उट्टिमि सूरे सहस्सरसिमि दिणयरे तेअसा जलंते मुहधोअणदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलिअअदागधूवपुष्फमल्लगंधतंबोलवत्थाइआई दव्वावस्सयाइं करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा
उज्जाणं वा सभं वा पर्व वा गच्छन्ति, सेतं लोइयं दव्वावस्सयं (सू०१९) अत्र निर्वचनमाह-लोइयमित्यादि, लोके भवं लौकिक शेषं तथैव, अत्र राजेश्वरतलवरायः प्रभा-18 तसमये मुखधावनादि कृत्वा तत: पश्चादू राजकुलादी गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा-चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च, ईश्वरो-युवराजः सामान्यमण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमायष्टविधैश्वर्ययुक्त ईश्वरः, परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः, यस्य पार्श्वत आसनमपरं ग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नजनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिका, कतिपयकुटुम्बप्रभुः कौटुम्बिका, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः-यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपविभूषितोत्तमाङ्गः पुरज्येष्ठो बणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः
~ 48~